This page has been fully proofread once and needs a second look.

स्तबकः १ ]
 
काव्यकल्पलतावृत्तिः ।
 
पल्लवो<error>ऽम्बुज, मङ्गुल्याः</error> <fix>अम्बुजम् अङ्गुल्याः</fix> पल्लवो, नखपद्धतेः ।

रत्नताराप्रसूनानि, स्तनयोः स्तबकौ घटौ ॥ २७ ॥

 
कुम्भि<error>कुम्भी </error><fix> कुम्भौ </fix>गिरी चक्रौ स्तम्बौ, मध्यस्य वेदिका ।

सिंहशक्ती च, रोमाल्या रेखामृणालवलयः ॥ २८ ॥

 
नाभेरम्भोजमावर्त्ती हतो ह्रदो विवरकूपकौ ।

त्रिवल्या वीचिसोपाननिश्रेण्यायो, जघनस्य तु ॥ २९ ॥

 
पुलिनं पीठफलके, नितम्बस्य स्थलं पुनः ।

वाःर्व्वोः कदलिकास्तम्भेभकरौ करभस्तथा, ॥ ३० ॥
 

 

 
जङ्घायुगस्य च स्तम्भो, गतेर्हंसमतङ्गजौ, ।

इमान्यन्यान्यपि स्त्रीभ्य उपमानं यथोचितम् ॥ ३१ ॥

 
पुंसोऽङ्गे तूपमानानां विशेषः कोऽपि कथ्यते ।

स्कन्धस्य वृषरक्ताक्षस्कन्धौ, बाह्वोरहीश्वरः ॥

हस्तिहस्तपविस्तम्भार्गलादण्डाश्च, वक्षसः ॥ ३२ ॥

 
एकैकेनापि धर्मेणोपमानं बहुधा भवेत् ।
 

 
एक एवार्को बहुधोपमानं यथा -
 

धर्म्मा वर्णक्रियाकाराधाराधेयादयो मताः ॥ ३३ ॥

 
वर्ण्यस्य राजादेर्वर्णादिमध्यादेकैकेनापि धर्मेण रव्यादिरुपमानमनेकधा भवति ।
 

एक एवार्को बहुधोपमानं यथा--
 
नवार्क इव रक्कोऽयं, तमोभेदी स भानुवत्
 
.9
 
, ।
सद्वृत्तः सवितेवायं, कुले भात्येष खेंऽशुवत्
, ॥
 
आदित्यवत्प्रतापी स, सद्दिनः स दिनेशवत्
, ।
वसुभृत्स यथा सूर्यः, स्मेरपद्मः स सूर्यवत्
 
"
 
, ॥
 
अभ्यासः स्याद्विभक्तीनामुपमानोपमेययोः ।

उपमावाचकानां च धर्म्माणां च विपर्ययात् ॥ ३४ ॥
 

 
विपर्ययात्सर्वत्र सम्बध्यते । विभक्तिविपर्ययादभ्यासो यथा-
-
 
स विपक्षान् प्रचिक्षेप तमःस्तोममिवार्थमा ।
ऽर्यमा ।
द्विषस्तं नाभियुध्यन्ते ध्वान्तोद्भेदा रविं यथा ॥

 
रविणेवान्धकाराणि तेन चिक्षिपिरे द्विषः ।

दुह्यन्ति दुर्जनास्तस्मै घूका इव दिवाकृते
तत्रः

 
तत्रसुः
शत्रवस्तस्माद् घूका इव दिवाकरात् ।

तपोवद्विरिपवस्त्रस्तास्तस्यार्कस्येव तेजसा ।

वाविवोदिते तत्र शत्रवो ध्वान्तवद्ताः ॥
 
१०७
 

 
षट्पदी ।
 
-
 

 
उपमानोपमेययोर्विपर्ययाद्यथा, उपमानं यद्भवति तदुपमेयं क्रियते -
-
 
विजयी विद्विषोऽजैषीद्भास्वानिव तमोभरम् ।

अध्वंसत रविर्ध्वान्तं विजयी विद्विषो यथा ॥