This page has not been fully proofread.

स्तबकः १ ]
 
काव्यकल्पलतावृत्तिः ।
 
पल्लवोऽम्बुज, मङ्गुल्याः पल्लवो, नखपद्धतेः ।
रत्नताराप्रसूनानि, स्तनयोः स्तबकौ घटौ ॥ २७ ॥
कुम्भिकुम्भी गिरी चक्रौ स्तम्बौ, मध्यस्य वेदिका ।
सिंहशक्ती च, रोमाल्या रेखामृणालवलयः ॥ २८ ॥
नाभेरम्भोजमावर्त्ती हदो विवरकूपकौ ।
त्रिवल्या वीचिसोपाननिश्रेण्या, जघनस्य तु ॥ २९ ॥
पुलिनं पीठफलके, नितम्बस्य स्थलं पुनः ।
ऊवाः कदलिकास्तम्भेभकरौ करभस्तथा ॥ ३० ॥
 

 
जङ्घायुगस्य च स्तम्भो, गतेहंसमतङ्गजौ, ।
इमान्यन्यान्यपि स्त्रीभ्य उपमानं यथोचितम् ॥ ३१ ॥
पुंसोऽङ्गे तूपमानानां विशेषः कोऽपि कथ्यते ।
स्कन्धस्य वृषरक्ताक्षस्कन्धौ, बाह्वोरहीश्वरः ॥
हस्तिहस्तपविस्तम्भार्गलादण्डाश्च, वक्षसः ॥ ३२ ॥
एकैकेनापि धर्मेणोपमानं बहुधा भवेत् ।
 

 
एक एवार्को बहुधोपमानं यथा -
 
धर्मा वर्णक्रियाकाराधाराधेयादयो मताः ॥ ३३ ॥
वर्ण्यस्य राजादेवर्णादिमध्यादेकैकेनापि धर्मेण रव्यादिरुपमानमनेकधा भवति ।
 
नवार्क इव रक्कोऽयं, तमोभेदी स भानुवत् ।
 
.9
 
सद्वृत्तः सवितेवायं, कुले भात्येष खेंऽशुवत् ॥
आदित्यवत्प्रतापी स, सद्दिनः स दिनेशवत् ।
वसुभृत्स यथा सूर्यः, स्मेरपद्मः स सूर्यवत् ॥
 
"
 
अभ्यासः स्याद्विभक्तीनामुपमानोपमेययोः ।
उपमावाचकानां च धर्माणां च विपर्ययात् ॥ ३४ ॥
 
विपर्ययात्सर्वत्र सम्बध्यते । विभक्तिविपर्ययादभ्यासो यथा-
स विपक्षान् प्रचिक्षेप तमःस्तोममिवार्थमा ।
द्विषस्तं नाभियुध्यन्ते ध्वान्तोद्भेदा रविं यथा ॥
रविणेवान्धकाराणि तेन चिक्षिपिरे द्विषः ।
दुह्यन्ति दुर्जनास्तस्मै घूका इव दिवाकृते ।
तत्रः शत्रवस्तस्माद् घूका इव दिवाकरात् ।
तपोवद्विपवस्त्रस्तास्तस्यार्कस्येव तेजसा ।
वाविवोदिते तत्र शत्रवो ध्वान्तवद्वताः ॥
 
१०७
 
षट्पदी ।
 
-
 
उपमानोपमेययोर्विपर्ययाद्यथा, उपमान यद्भवति तदुपमेयं क्रियते -
विजयी विद्विषोऽजैषीद्भास्वानिव तमोभरम् ।
अध्वंसत रविवन्तं विजयी विद्विषो यथा ॥