This page has been fully proofread once and needs a second look.

स्तबक: ५ ]
 
ते आननमिति सम्बन्धो गूढः ।

पादमूगूढे चतुर्थपादवर्णाः पादत्रये क्षेप्याः । यथा-
काव्यकल्पळतावृत्तिः ।
 
-
 
त्वं दोर्बलादरी देव सोबेकदरशंकुकृत् ।
 

त्वद्यशोऽरं मुदं दत्ते-
M
 
-
अत्र पादत्रये चतुर्थः पादो गुप्तः - --'कुमुदोदरसोदरम्' ॥ इति ।

 
द्वात्रिंशत्कोष्ठकेषु श्लोककरणविधिः-
१४ का० ऋ०
 
-
 
प्राक्कोष्केषु न श्लोकाः पूरणीया विचक्षणैः ।
 

केवलं प्रश्नवेलायां पादः कार्यो नवो नवः ॥ १८६ ॥
९ ॥
 
इति श्रीजिनदत्तसूरिशिष्यपण्डितवरश्रीमदमररचितायां काव्यकल्पलताक विशिक्षा-

वृत्तौ श्लेषसिद्धिप्रताने तृतीये चित्रस्तबकः पञ्चमः सम्पूर्णः ॥

 
सम्पूर्णश्च श्लेषसिद्धिप्रतानस्तृतीयः ॥
 

------------------------------
 
अथाऽर्थसिद्धिप्रतानः ।
 
तत्र प्रागलङ्काराभ्यास:-
-
 
अथाऽर्थसिद्धिप्रतानः ।
 
सः--
 
उपमाद्यानलङ्कारानभ्यस्येदर्थसिद्धये ।

हृद्यं साधर्म्यमुपमा सोपमानोपमेययोः ॥ १ ॥

 
धर्मोपमावाचकयोधोश्चोक्तौ पूर्णा मता यथा ।

शशीवाऽऽस्थंयं मुदं दत्ते, लुप्तैकद्वित्रिलोपतः ॥ २ ॥

 
उपमानस्य लोपे तु रम्यं मुखमिवास्ति नः, ।

धर्मलोपे शशीवास्यं, लोपे धर्मोपमानयोः ॥ ३ ॥

 
कुसुमं मालतीतुल्यं न भृङ्गो लभते भ्रमन् ।

धर्मेबाद्युपमानानां लोपे हरिणलोचना ॥ ४ ॥

 
एकस्मिन्नुपमेये तु बहूपमानयोगतः ।
 

अभिन्ने वाऽथ भिन्ने वा धर्मे मालोपमा भवेत् ॥ ५ ॥

 
अनयेनेव नृपति, र्धाष्टयेंर्येव कुलाङ्गना ।

कार्पण्येनेव कमला, कला गर्वेण दूष्यते ॥ ६ ॥

 
पीयूषमिव सुस्वादुर्भास्वानिव विबोधकृत् ।

ज्ञानीव तत्त्वनिष्णातः सतां वचनविस्तरः ॥ ७ ॥

 
यत्र यात्युपमानत्वमुपमेयं यथोत्तरम् ।
 
"
 

सा भिन्नेनाऽप्यभिन्नेन धर्मेण रसनोपमा ॥ ८ ॥

 
साधोर्धीवत्तता विद्या, विद्यावद्दोषहत् क्रिया, ।

कियावत्प्रीतिकृद्वाणी, वाणीवरत्कीर्तिरुज्ज्वला ॥ ९ ॥

 
यस्यासीद्विमलं शास्त्रवद्विचंत्तं वित्तवन्मनः ।

मनोवद्दानं, दानवद्यशो, विश्वत्रयीमुदे ॥ १० ॥
 

 
१४ का० क०