This page has been fully proofread once and needs a second look.

१०४
 
अमरचन्द्रयतिकृता-
सङ्गमा इत्यन्न प्रत्र ङ्गकारो व्यञ्जनयुतं व्यञ्जनञ्चाऽर्द्धमात्रकम् ।

 
ताडकाश्रित शृङ्गारा सारगानचलेक्षणा ।
 

आलोकितापि लोकस्य मनो हरति कामिनी ॥
 

 
अत्र ताडङ्कुसारङ्गेति । शब्दा यथा - --[ स्यन्द मन्द मन्द्य भङ्ग सदरङ्ग सम्मद खज

करञ्ज कबन्ध वन्दन नन्दन सम्भ्रम संवर सङ्गर कम्बल जम्बीर चितृत् अञ्चल करआाञ्जादयः]।

 
सानुस्वारवणेंर्णेषु निरनुस्वारीकृतेष्वपि येषां शब्दानामर्थो मिलति तैर्बिन्दुच्युतं
 

स्यात् । यथा -
 
--
 
साहसेनाश्रिता पद्मालयेन जलदात्यये ।
 

अर्णवस्याभिसरणे रहो मुह्यति वाहिनी ॥
 

 

 
अत्र हंसरंह इत्यन्त्र बिन्दुः । शब्दा यथा--[ वंश हँहंदेंदंश रंहः ] प्रभृतयः ।

[ मीमांसा पिनाकि कुमार केशव कन्दर्प कलापि कपर्द्दी काकोल जवन जघन चरण

गाङ्गेय गौरव केसर चुम्बक नक्षत्र नगर खञ्जन नगरञ्जन ] प्रभृतयः । अथवा -
 
--
 
नतनाकिमौलिमणिमण्डलीविभाभरभासुराङ्घ्रिसरेसीरुहा सताम् ।

शिवशर्मणे भवतु भारती भृशं दृढजाड्यखण्डन दिनेशभाततिः ॥
 

 
अत्र नन्दिनीच्छन्दसि प्रतिपादमाद्याक्षरद्वयपाते रथोद्धतावृत्तेन, तथान्त्याक्षरद्वय
-
पाते च भद्रिकावृत्तेन भारतीस्तुतिः । अयं वर्णच्युतप्रकारः छन्दोमर्माणि ज्ञात्वा

साधारणशब्दैः साध्यः ॥
 

 
अथ चतुर्विधं गूढम् । क्रियागूढे भङ्गश्लेषाद्युपायैरेकाक्षरादिकाः क्रियाः प्रयोज्याः ।
 

यथा-
-
 
[ प्रतानः ३-
w
 
-
 
यथा-
यथा यथा त्रस्त त्रस्तकुरङ्गनेत्रा प्रिया पुरो मेऽद्य तिरोहितश्रीः ।
 

महोदधेः स्फारतरङ्गभङ्या तथा तथा प्रेममयं मुद्राऽहम् ॥
 

 
अत्र मेद्यति, दधे च क्रिये । क्रिया यथा --[ अस्ति स्तः अस्मि स्वः स्मः ] ।

प्रणितिरोहितः । एवं भवति, यक्षति, प्रभृतिभ्यो रोहितः । [ विभेति बिभीतः बिभीमः

इयपिर्षि ददासि बिभृतः मिमते मिमे जिहाते स्यति स्य दूयते मोयते लीयते ] इत्यादि ।

[ आभा आरु: आश आणुः ईयुः ] प्रभृतयः ॥
 

 
कर्तृकर्मादिगुप्तादि भङ्गश्लेषेण साधयेत् ॥ १८ ॥
 

 
यथा--
 
मा न कोपभृते पुंसि शाश्वतीं स्थितिमाश्रयेत् ।

शङ्खेभ्यो नाप्नुयात्कोऽपि देशः प्राप्नोति कङ्कणैः ॥

 
पूर्वार्द्धे कर्तृगुप्तम् । मा, न लक्ष्मीर्न। उत्तरर्द्धि कर्मगुप्तम् । खेभ्य इन्द्रियेभ्यः,

शं शुखम् । कणैः, कं सुखम् ।
 

 
सम्बन्धगूढमपि भङ्गश्लेषेण साध्यम् --
 
--
 
बालया पृथिवीपाल न्व्यलोक्यत तयाननम् ।

तदाप्रभृति तां निन्ये स्मरः स्वशरवेव्ध्यताम् ॥