This page has not been fully proofread.

१०४
 
अमरचन्द्रयतिकृता-
सङ्गमा इत्यन्न प्रकारो व्यञ्जनयुतं व्यञ्जनञ्चाऽर्द्धमात्रकम् ।
ताडकाश्रित शृङ्गारा सारगानचलेक्षणा ।
 
आलोकितापि लोकस्य मनो हरति कामिनी ॥
 
अत्र ताडङ्कुसारङ्गेति । शब्दा यथा - [ स्यन्द मन्द मन्द्य भङ्ग सदरङ्ग सम्मद खज
करञ्ज कबन्ध वन्दन नन्दन सम्भ्रम संवर सङ्गर कम्बल जम्बीर चितृ अञ्चल करआादयः]।
सानुस्वारवणेंषु निरनुस्वारीकृतेष्वपि येषां शब्दानामर्थो मिलति तैर्बिन्दुच्युतं
 
स्यात् । यथा -
 
साहसेनाश्रिता पद्मालयेन जलदात्यये ।
 
अर्णवस्याभिसरणे रहो मुह्यति वाहिनी ॥
 

 
अत्र हंसरंह इत्यन्त्र बिन्दुः । शब्दा यथा – [ वंश हँस देंश रंहः ] प्रभृतयः ।
[ मीमांसा पिनाकि कुमार केशव कन्दर्प कलापि कपर्दी काकोल जवन जघन चरण
गाङ्गेय गौरव केसर चुम्बक नक्षत्र नगर खञ्जन नगरञ्जन ] प्रभृतयः । अथवा -
 
नतनाकिमौलिमणिमण्डलीविभाभरभाठराङ्घ्रिसरेसीरुहा सताम् ।
शिवशर्मणे भवतु भारती भृशं दृढजाड्यखण्डन दिनेशभाततिः ॥
 
अत्र नन्दिनीच्छन्दसि प्रतिपादमाद्याक्षरद्वयपाते रथोद्धतावृत्तेन, तथान्त्याक्षरद्वय
पाते च भद्रिकावृत्तेन भारतीस्तुतिः । अयं वर्णच्युतप्रकारः छन्दोमर्माणि ज्ञात्वा
साधारणशब्दैः साध्यः ॥
 
अथ चतुर्विधं गूढम् । क्रियागूढे भङ्गश्लेषाद्युपायैरेकाक्षरादिकाः क्रियाः प्रयोज्याः ।
 
यथा-
-
 
[ प्रतानः ३-
w
 
यथा-
यथा यथा त्रस्त कुरङ्गनेत्रा प्रिया पुरो मेऽद्य तिरोहितश्रीः ।
 
महोदधेः स्फारतरङ्गभङ्गया तथा तथा प्रेममयं मुद्राऽहम् ॥
 
अत्र मेद्यति, दधे च क्रिये । क्रिया यथा -[ अस्ति स्तः अस्मि स्वः स्मः ] ।
प्रणितिरोहितः । एवं भवति, यक्षति, प्रभृतिभ्यो रोहितः । [ विभेति बिभीतः बिभीमः
इयपि ददासि बिभृतः मिमते मिमे जिहाते स्यति स्य दूयते मोयते लीयते ] इत्यादि ।
[ आभा आरु: आश आणुः ईयुः ] प्रभृतयः ॥
 
कर्तृकर्मादिगुप्तादि भङ्गश्लेषेण साधयेत् ॥ १८ ॥
 
मा न कोपभृते पुंसि शाश्वत स्थितिमाश्रयेत् ।
शङ्खेभ्यो नाप्नुयात्कोऽपि देशः प्राप्नोति कणैः ॥
पूर्वार्द्धे कर्तृगुप्तम् । मा, न लक्ष्मीन। उत्तरद्धि कर्मगुप्तम् । खेभ्य इन्द्रियेभ्यः,
शं शुखम् । कणैः, कं सुखम् ।
 
सम्बन्धगूढमपि भङ्गश्लेषेण साध्यम् --
 
बालया पृथिवीपाल न्यलोक्यत तयाननम् ।
तदाप्रभृति तां निन्ये स्मरः स्वशरवेव्यताम् ॥