This page has been fully proofread once and needs a second look.

गणेशोऽङ्गगलत्त्वङ्गगङ्गासङ्गरलोरगः ।
गरभुग्गगनाभोगगतिस्तुङ्गगणानुगः ॥
 
[diagram in book could not be typed out]

 
अष्टदलकमलबन्धः ।
 
एवंविधश्लोकैर्बहुचित्रसिद्धिः । शूरेत्यादिपूर्वोक्तगोमूत्रिकासदृशैः श्लोकैर्गो-
मूत्रिकाद्वयम् ।
 
[diagram in book could not be typed out]

 
षोडशदलकमलबन्धश्च ।
 
एवं बहुचित्रोत्पत्तिश्च । एवं मुरजधनुर्बन्धादयः ।
क्रमाच्चतुर्विधं च्युतम् । मात्राहीनीकृतेषु वर्णेषु येषां शब्दनामर्थो मिलति तैः शब्दै-
र्मात्राच्युतं स्यात् । यथा--
 
देशान्तरावृतान् भावान् कालातीतानपि स्फुटम् ।
केवलं ज्ञानतो योगी प्रत्यक्षानिव वीक्षते ॥
 
देशकालकेवलैः । शब्दा यथा--[ वाल चार वीर पार कोमल केकि अलीक क्रूर
भार मार हार कार तार दार पार धार स्फार सार ताल नाल हाल हेलि कृपाण
उन्माद तडाग काच प्रवाल प्रहार भारत जाया ] प्रभृतयः ।
 
येषु शब्देषु अर्द्धमासाहीनीकृतेष्वप्यर्थो मिलति तैरेवार्द्धमात्राच्युतं भवति । यथा--
 
मध्येसूरिसभं भूरि स्वीकृतानङ्गसङ्गमाः ।
न लभन्ते नराः शोभां भानीव रविभानुषु ॥