This page has been fully proofread once and needs a second look.


 
अमरचन्द्रयतिकृता-
रूढयौगिक मिश्राख्या यौगिकाह्वानमालिका ।
 

अनुप्रासो लाक्षणिको द्वितीये स्तबकाः स्मृताः ॥ ४ ॥

 
श्लेषव्युत्पादनं सर्ववर्णनोद्दिष्टवर्णने ।
 
[ प्रतानः १-

अद्भुतं चित्रमित्येते तृतीये स्तबकाः कृताः ॥ ५ ॥

 
तुर्ये पुनरलङ्काराभ्यासवर्थ्यांण्याकृतिक्रियाः ।
 

प्रकीर्णकाभिधः संख्यासमस्ये स्तकाः स्थिताः ॥ ६ ॥

 
इति शास्त्रसंसङ्ग्रहः ।
 

 
काव्यस्य छन्दोमूलत्वात् प्रथमं छन्दःसिद्धिप्रतानः, तत्र पूर्वमनुष्टुप्छासनं यथा-
-
 
दौ साध्यपदं स्थाप्यम्
 
--
 
आदौ प्रथमं साध्यमवश्यं प्रयोज्यं पदं कार्यम् । एमेकाक्षरादीनि साध्यपदानि
,
यथा - --श्रीः, लक्ष्मीः, कमला, कमलजा, जलधिजा, दुग्धाब्धिपुत्री, दुग्धाब्धि-
तनया,
दुग्धाम्भोनिधिसम्भूता ।
 
-
 

 
एकादिद्विलघु द्वयात् ।
 

 
एको ह्रस्वो दीर्घो वा वर्ण आदौ ययोस्तौ एकादी, द्वौ लघू यत्र पदे तदेकादिद्वि-

लघु पदं जलधिजा-, वारिधिजादि द्वयाद्वर्णद्वयात् स्थाप्यम् । यथा - --असौ जलधिजा

देवी, इयं वारिधिजा देवी ।
 

 
ह्र
स्वादिद्विलघुपदस्यादौ लघू गुरुलघू च न प्रयोज्यौ । यथा - --इह जलधिजा

देवी, अत्र जलधिजा देवी ।
 

 
पञ्चाक्षरं समासे के विभक्तिभ्रंशिनि स्वरे ॥ ७ ॥
 

 
पञ्चाक्षरं पदं कुमारपाल-क्षीराब्धिपुत्री प्रभृतिपदंदम् । समासेन कप्रत्ययेन
वा विभक्ति
अं
भ्रंशहेतुना पुरःस्थस्वरेण वा स्थाप्यम् । यथा - --कुमारपाल भूषाल, पाल,
क्षीराब्धिपुत्रिका
सेयम्यं, कुमारपालको राजा, कुमारपाल उल्लासी ।
 

 
स्याश्चतुष्पञ्चषड्दू<flag>ढ्रस्वं</flag> प्रान्ते विषमपादयोः ।
 

 
चतुर्ह्रस्वाक्षरं पदं दशरथादिकं पञ्चह्रस्वाक्षरं पर्ददं कमलवनादिकं पहूहू<flag>षड्ढ्रस्वाक्षरं
</flag>पदं समवसरणादिकं प्रथमतृतीयायपादयोः प्रान्ते चतुस्वित्रिद्विवर्णेभ्यः प्रायः सर्वगुरुभ्यो निश्चिता-

न्तगुरुभ्यो वा परतः प्रयोज्यम् । यथा - --पृथ्वीनाथो दशरथः, अथवा - --तदा नृपो

दशरथः, विस्मेरं कमलवनं, रम्यं समवसरणम् ।
 

 
शेषं विशेषणैः पूर्णम्
 

 
शेषं काव्यं विशेषणैः पूर्णं क्रियते ।
 

 
तूर्णं काव्यप्रदं पदम् ॥ ८ ॥
 

 
इत्युक्तप्रकारेण प्रयुज्यमानं पदं शीघ्रं काव्यप्रदं भवति । अनुष्टुभि प्रायः पथ्या
-
वक्त्रेणाभ्यासः क्रियते ।
 
.