This page has not been fully proofread.


 
अमरचन्द्रयतिकृता-
रूढयौगिक मिश्राख्या यौगिकाह्वानमालिका ।
 
अनुप्रासो लाक्षणिको द्वितीये स्तबकाः स्मृताः ॥ ४ ॥
श्लेषव्युत्पादनं सर्ववर्णनोद्दिष्टवर्णने ।
 
[ प्रतानः १-
अद्भुतं चित्रमित्येते तृतीये स्तबकाः कृताः ॥ ५ ॥
तुर्ये पुनरलङ्काराभ्यासवर्थ्यांकृतिक्रियाः ।
 
प्रकीर्णकाभिधः संख्यासमस्ये स्तवकाः स्थिताः ॥ ६ ॥
इति शास्त्रसंग्रहः ।
 
काव्यस्य छन्दोमूलत्वात् प्रथमं छन्दःसिद्धिप्रतानः, तत्र पूर्वमनुष्टुप्छासनं यथा-
दौसाध्यपदं स्थाप्यम्
 
आदौ प्रथमं साध्यमवश्यं प्रयोज्यं पदं कार्यम् । एकाक्षरादीनि साध्यपदानि
यथा - श्रीः, लक्ष्मीः, कमला, कमलजा, जलधिजा, दुग्धाब्धिपुत्री, दुग्धाब्धितनया,
दुग्धाम्भोनिधिसम्भूता ।
 
-
 
एकादिद्विलघु द्वयात् ।
 
एको ह्रस्वो दीर्घो वा वर्ण आदौ ययोस्तौ एकादी, द्वौ लघू यत्र पदे तदेकादिद्वि-
लघु पदं जलधिजा-वारिधिजादि द्वयाद्वर्णद्वयात् स्थाप्यम् । यथा - असौ जलधिजा
देवी, इयं वारिधिजा देवी ।
 
हस्वादिविलघुपदस्यादौ लघू गुरुलघू च न प्रयोज्यौ । यथा - इह जलधिजा
देवी, अत्र जलधिजा देवी ।
 
पञ्चाक्षरं समासे के विभक्तिभ्रंशिनि स्वरे ॥ ७ ॥
 
पञ्चाक्षरं पदं कुमारपाल-क्षीराब्धिपुत्री प्रभृतिपदं समासेन कप्रत्ययेन वा विभक्ति
अंशहेतुना पुरःस्थस्वरेण वा स्थाप्यम् । यथा - कुमारपाल भूषाल, क्षीराब्धिपुत्रिका
सेयम्, कुमारपालको राजा, कुमारपाल उल्लासी ।
 
स्याश्चतुष्पञ्चषड्दूस्वं प्रान्ते विषमपादयोः ।
 
चतुर्हस्वाक्षरं पदं दशरथादिकं पञ्चस्वाक्षरं पर्द कमलवनादिकं पहूहूस्वाक्षरं प
समवसरणादिकं प्रथमतृतीयादयोः प्रान्ते चतुस्विद्विवर्णेभ्यः प्रायः सर्वगुरुभ्यो निश्चिता-
न्तगुरुभ्यो वा परतः प्रयोज्यम् । यथा - पृथ्वीनाथो दशरथः, अथवा - तदा नृपो
दशरथः, विस्मेरं कमलवनं, रम्यं समवसरणम् ।
 
शेष विशेषणैः पूर्णम्
 
शेषं काव्यं विशेषणैः पूर्ण क्रियते ।
 
तूर्णं काव्यप्रदं पदम् ॥ ८ ॥
 
इत्युक्तप्रकारेण प्रयुज्यमानं पदं शीघ्रं काव्यप्रदं भवति । अनुष्टुभि प्रायः पथ्या
वक्त्रेणाऽभ्यासः क्रियते ।
 
.