This page has been fully proofread once and needs a second look.

तच्चित्रम् । यथा--
 
शूरः स्थिरतरस्फारशरभारधरः पुरः । आरवैरभरस्मेरवीरवारहरः परः ॥
 
[ Two Geodiagrametr in book c Patould notern be typed out]
 
गोमूत्रिकाद्वयं पूर्वार्धापरार्धयोः, अथवा आद्यद्वितीययोः, तृतीयचतुर्थयोश्च पादयो-
रिति द्वौ भेदौ ।
 
अथ तुरगपदरीत्या श्लोकाक्षराङ्कन्यासः--
 
श्रीत्रिंशन्नवविंशतित्रयजिनश्रीकण्ठषड्विंशती-
न्दूनाविंशतियुग्मपौषदशभावेकत्रयोविंशतिः ।
सत्रिंशद्विपसत्कलाभुवनतत्षड्वर्गवर्णां शुभ-
त्सेनापक्षसुलक्षणस्वरसभासार्कद्विविंशाः शराः ॥
 
१ ३० ९ २० ३ २४ ११ २६
१६ १९ २ २९ १० २७ ४ २३
३१ ८ १७ १४ २१ ६ २५ १२
१८ १५ ३२ ७ २८ १३ २२ ५
[diagram in book could note be typed out]
 
तुरगपदाऽक्षराङ्कन्यासः
 
चतुर्भिः पादैः क्रमेण चत्वारः पादाः, प्रतिपादमष्टौ अङ्कस्थानानि । श्रीः एकः ।
जिनाश्चतुर्विंशतिः । श्रीकण्ठा एकादश । इन्दुकलाः षोडश । ऊनाविंशतिरेकोन-
विंशतिः । पौषदिनान्येकोनत्रिंशत् । भानि सप्तविंशतिः । सत्रिंशदेकत्रिंशत् ।
सत्कलाः सप्तदश । <error>भुवभानि</error><fix>भुवनानि</fix> चतुर्दश । तन्मुख्य एव वर्ण एकविंशतितमः । वर्ग-
वर्णाः पञ्चविंशतिः । सेना अष्टादश । पक्षतिथयः पञ्चदश । लक्षणानि द्वात्रिंशत् ।
स्वराः सप्त । सभानि अष्टाविंशतिः । सार्कस्त्रयोदश। द्विविंश द्वाविंशतिः ।
शराः पञ्च । शेषं सुगमम् ॥
 
हयपदस्य रीत्यन्तरम्--
 
हदूयपीहिपैयिदायैपिहादुयादिहीपे । देहैपयूपुहूदयीपायेदैहेदीयुपूहु ॥