This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
कं सुखे वारिशिरसोः किं प्रश्ने कुत्सनेऽपि च ॥ १५६ ॥

 
चोऽन्योन्यार्थसमाहारान्वाचयेषु समुच्चये ।

हेतौ पक्षान्तरे तुल्ययोगिता विनियोगयोः ॥ १५७ ॥

 
पादपूरणेऽवधृतौ तु विशेषेऽवधारणे ।

समुच्चये पादपूर्तीतौ धिक् निर्भर्त्सन निन्दयोः ॥ १५८ ॥

 
नि स्यात् क्षेपे भृशार्थे च नित्यार्थे दानकर्मणि ।

सन्निधानोपरमयोः संश्रयाश्रयराशिषु ॥ १५९ ॥

 
मोक्षेऽन्त भावेऽधोभावे बन्धने कौशलेऽपि च ।

नु प्रश्नेऽनुनयेऽतीतार्थे विकल्पवितर्कयोः ॥ १६० ॥

 
नञीषदर्थे सादृश्ये तद्विरुद्धतदन्ययोः ।
 

व्यतिक्रमे स्वरूपार्थे निषेधाभावयोरपि ॥ १६१ ॥

 
वा समुच्चय एवार्थे उपमानविकल्पयोः ।

विशिष्टेऽतीते नानार्थे वै हतौ पादपूरणे ॥ १६२ ॥

 
शं कल्याणे सुखे संप्रकृष्टार्थसङ्गमार्थयोः ।

शोभनार्थे समार्थे ह सम्बुद्धौ पादपूरणे ॥ १६३ ॥

 
हा शुग्दुःख विषादेषु हि हेताववधारणे ।

विशेषे पादपूर्तीतौ च ही विस्मयविषादयोः ॥ १६४ ॥

 
दुःखहेतौ च हं रोषभाषणेऽनुनयेऽपि च ।

हुं तर्के प्रश्नेऽङ्ग पुनरर्थे सम्बोधने मुदि ॥ १६५ ॥

 
अति प्रोक्तप्रकर्षार्थे लङ्घनार्थभृशार्थयोः ।

स्तुतावसंप्रतिक्षेपे आराद् दूरसमीपयोः ॥ १६६ ॥

 
इति स्वरूपे सान्निध्ये विवज्ञाक्षानियमे मता ।

हेतौ प्रकार प्रत्यक्ष प्रकाशेष्ववधारणे ॥ १६७ ॥

 
एवमर्थे समाप्ते स्यादुत प्रश्नवितर्कयोः ।

समुच्चये विकल्पे चाऽथोऽप्यथ स्यात्समुच्चये ॥ १६८ ॥

 
मङ्गले संशयारम्भाधिकारानन्तरेषु च ।
 
स्तंबक: ५ ]
 

अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोरपि ॥ १६९ ॥

 
अनुर्लक्षणवी सेत्थंभूतभागेषु सन्निधौ ।

सादृश्यायामहीनेषु पश्चादर्थसहार्थयोः ॥ १७० ॥

 
नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताववधारणे ।

वाक्यारम्भेऽनुनयेऽप्या मन्त्रणाऽनुज्ञयोरपि ॥ १७१ ॥

 
नाना विनोभयानेकार्थेष्वप्यस्तेयहर्षयोः ।

अपकृष्टे वर्जने च विपर्ययवियोगयोः ॥ १७२ ॥

 
निर्देशार्थे विकृत्यर्थे विबुधैः परिकीर्त्यते ।
 

अपिः संभावनाशङ्कागर्हणासु समुच्चये ॥ १७३ ॥
 
६ १
 
3