This page has not been fully proofread.

अमरचन्द्रयतिकृता-
[ प्रतानः ३-
शिवपत्न्यां हरिद्रायां कीर्तिकान्त्यतसीष्वपि ॥ १३६ ॥
ययुर्यज्ञहये वाहे स्यादरोऽष्टादशार्हति ।
भवत्यरं तु चक्राङ्गे शीघ्रशीघ्रगयोरपि ॥ १४० ॥
श्रारो रीरी शनिभौमे श्रारा चर्मप्रभेदिनी ।
इराऽम्भोवाक्सुराभूषु रुरुदैत्यकुरङ्गयोः ॥ १४१ ॥
अलिः सुरापुष्पलिहोरालं तु हरितालके ।
तथा निरर्थके ज्ञेयमालिस्तु विशदाशये ॥ १४२ ॥
अनर्थे सख्यामावल्यां सेनावालुर्गलन्तिकाः ।
श्रालुः कन्दे भेलुकेऽपी लोर्चा गौर्वाक् बुधाङ्गना ॥ १४३ ॥
लोला केलिविलासश्च शृङ्गारभावजक्रिया ।
 
लोलवले सतृष्णे च लोला तु रसनाश्रियोः ॥ १४४ ॥
अविर्भेषे रवौ भूमिधरे मूषककम्बले ।
 
अंशुः सूत्रादिसूक्ष्मांशे किरणे चण्डदीधितौ ॥ १४५ ॥
आशा ककुभि तृष्णायामाशुस्तु वीहिशीघ्रयोः ।
ईश: स्वामिनि रुद्रे च स्यादीषा हलदराडके ॥ १४६ ॥
उषा स्याद्वाण दैत्येन्द्रनन्दिन्यां रजनावपि ।
श्रागः स्यादेनोवदघे मन्तावाशीर्हितैषणे ॥ १४७ ॥
 
उरगस्य च दंष्ट्रायामुषः सन्ध्याप्रभातयोः ।
 
उरो वक्षसि मुख्ये स्यादोजो दीप्तिप्रकाशयोः ॥ १४८ ॥
अवष्टम्भे बले धातुतेजस्योकस्तु सद्मनि ।
ऊकस्त्वाश्रममात्रेऽहिभुजङ्गे वृत्रवप्रयोः ।
ईहोद्यमस्पृहेत्येते द्विस्वरैकाक्षरा मताः ॥ १४९ ॥
अथाऽव्ययानि कथ्यन्ते प्राग्वदेव स्वरक्रमात् ।
श्रः स्वार्थेऽप्यस्वभावेऽपि स्यादा स्मरणवाक्ययोः ॥ १५० ॥
श्राङीषदर्थेऽभिव्याप्तौ क्रियायोगेऽवधावपि ।
 
श्रा स्यादवधृतिस्मृत्योराः सन्तापप्रकोपयोः ॥ १५१ ॥
इः स्यात् खेदे प्रकोपोक्तावी क्रोधे दुःखभावने ।
प्रत्यक्ष सन्निधौ चाडपरुषोक्त्यामन्त्रणार्थयोः ॥ १५२ ॥
उः प्राधान्ये प्रकाशे च प्रावल्यास्वास्थ्यशक्तिषु ।
विभागे बन्धने मोक्षे भावे लोभोर्ध्वकर्मणोः ॥ १५३ ॥
उं प्रश्नेऽङ्गीकृतौ रोषेऽव्यू प्रश्ने रोषवाचि च
ॠ कुत्सावाक्ययोरेऐ हेहैशब्दाविव स्मृतौ ॥ १५४ ॥
श्रामन्त्रणा ह्वानयोरों प्रणवेऽङ्गीकृतावपि ।
उऊशब्दा तु होहौवत् हतौ सम्बोधनेऽपि च ॥ १५५ ॥
कः पापीयसि कुत्सायामीषदद्य निवारण ।