This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
धूर्यानवदने भारे पूः शरीरे पुरे तथा ।
 
दृग् द्रष्टदर्शनेऽप्यक्षिण विट् प्रवेशे नृवैश्ययोः ॥ १२२ ॥
तृड् लिप्सायां पिपासायां भा प्रभाव महस्यपि ।
मास्तु मासे विधौ चैते युक्पादान्तोपयोगिनः ॥ १२३ ॥
श्रकं दुःखाद्ययोरङ्को भूषारूपकलक्ष्मसु ।
 
स्तबकः ५ ]
 
चित्रादौ नाटकाद्यंशे स्थाने क्रोडेऽन्तिकागमे ॥ १२४ ॥
एकोऽन्यः केवलः श्रेष्ठः संख्या च परिकीर्त्यते ।
कङ्को यमे लोहपृष्ठे तथा ब्राह्मणलिङ्गिनि ॥ १२५ ॥
काकः पीठसर्पिणि स्याच्छिरोत्रक्षालने द्विके ।
द्वापमानदुभेदेषु काकं काककदम्बके ॥ १२६ ॥
योषितां रतवन्धे च काका तु काकजङ्घिका ।
काकोदुम्बरिका काकमाचिका रक्तिका तथा ॥ १२७ ॥
काकोली काकनाशोऽथ कोकश्चक्रे वृकेऽपि च ।
 
खर्जूरी पादपे भेके स्याद्गस्तु महीरुहे ॥ १२८ ॥
शैले सरीसृपे भानावङ्गमन्तिकगात्रयोः ।
उपसर्जनभूते स्यादस्त्युपायप्रतीकयोः ॥ १२९ ॥
अङ्गानि वृद्धिशेषे स्युरिङ्गः स्यादिङ्गितेऽद्भुते ।
ज्ञानजङ्गमयोश्चाऽघं दुःखे व्यसनपापयोः ॥ १३० ॥
श्रोघः प्रवाहः सङ्घातोऽद्भुतवृत्तपरम्परा ।
उपदेशश्च चच्चुस्तु त्रोटयां पञ्चाङ्गले तथा ॥ २३१ ॥
श्रजश्छागे हरे विष्णौ रघुजे वेधसिँ स्मरे ।
आज: क्षणे समदमायां युध्यट्टोऽद्दालके भृशे ॥ १३२ ॥
चतुष्कभक्तयोर्ह इडेले च बुधस्त्रियाम् ।
 
गोवाकूस्वर्भूमिनाडीषु तथा स्यादणिराणिवत् ॥ १३३ ॥
श्रक्षोऽग्रकीलेऽश्रौ सीमन्यपुर्वीह्यल्पयोः पुनः ।
 
अन्तः प्रान्ते च पार्श्वे च स्वरूपे निश्चये तथा ॥ १३४ ॥
नाशावयवयोः स्यादीतिरजन्यप्रवासयोः ।
 
स्थादूतिः स्यूतौ रक्षायामेतः कर्बुर आगते ॥ १३९ ॥
ततं वीणादिवाद्ये स्यात्ततो व्याप्तेऽनिले पृथौ ।
तातोऽनुकम्प्ये जन केऽन्दूः स्यान्निगडभूषयोः ॥ १३६ ॥
अन्धोऽन्धकारेऽक्षिहीने स्यादाधिर्वन्धकाशयोः ।
मनोत व्यसनेऽधिष्टानेऽन्नं स्वसितभक्तयोः ॥ १३७ ॥
इन: स्वामिनि सूर्ये स्यादुन्नं क्लिन्ने दयापरे ।
 
बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले ॥ १३८ ।
आमोऽपके रोगभेदागयोः स्यादुमा पुनः ।
 
१२ का० ऋ०
 
८९