This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 

 
श्रीमदरिमरसिंह निर्मितसूत्रसहिता

श्रीमदमरचन्द्रयतिना विरचिता
 

 
काव्यकल्पलतावृत्तिः ।
 

 
विमृश्य वाङ्मयं ज्योतिरमरेण यतीन्दुना ।

काव्यकल्पलताख्येयं कविशिक्षा प्रतन्यते ॥ १ ॥
 

 
सारस्वतामृतमहार्णवपूर्णिमेन्दोर्मत्वाऽरिसिंह सुकवेः कवितारहस्यम् ।

किंचिञ्च्च तद्रचितमात्मकृतं च किंचिद्व्याख्यास्यते त्वरितकाव्यकृतेऽत्र सूत्रम् ॥
१ ॥
 
शास्त्रारम्भे ([^)] शास्त्रकारः समुचितेष्टदेवतानमस्कारपूर्वं शास्त्रस्याख्यां प्रेक्षाव-

त्प्रवृत्त्यङ्ड़्गप्रयोजनमुक्तमभिधे<error>धं</error> चाह-
-
 
वाचं नत्वा महानन्दकरसत्काव्यसम्पदे ।
 

कविशिक्षामिमां वच्मि काव्यकल्पलताह्वयाम् ॥ १ ॥
 

 
वाचं नत्वेति श्रेयोहेतुः; श्रेयसा ह्यविघ्नेन शास्त्रसमाप्तिर्भवति, महानन्दकरं

यत्सत्काव्यं तस्य या सम्पद् वृद्धिस्तदर्थम्, सद्यो रसास्वादजन्मामा‌ विगलितवेद्या-
न्तरा
परब्रह्मरसास्वादसोदरा परप्रीतिर्महानन्दः, इदं सर्वप्रयोजनोपनिषद्भूतं कवि-

सहृदययोः काव्यप्रयोजनम् । कल्पलताऽपि सङ्कल्पमात्रलभ्यत्वेन हानन्दकरी सत्का
-
व्या सद्भिर्वर्ण्या या सम्पत् तदर्थं स्यात् । महानन्दः प्रयोजनं, तद्युक्तं सत्काव्यमभिधेयं,

शास्त्रमभिधायकं, तयोरभिधानाभिषेधेयलक्षणः सम्बन्धः । शेषं सुगमम् ।
 

 
शास्त्र सङ्ग्रहमाह -
 
-
 
चत्वारो ऽत्र च्छन्दःशब्दश्लेषार्थसिद्धिनामानः ।
 

क्रमशस्तताः प्रतानाः पञ्चचतुष्पञ्चसप्तभिः स्तबकैः ॥ २ ॥

 
सिद्धिशब्द:दः प्रत्येकं योज्यः, स्तबकसंख्या यथासंख्यम् । अत्र काव्यकल्पलतायां

छन्दः सिद्धिप्रतानः पञ्चभिः स्तबकैः, शब्दसिद्धिप्रताश्चतुर्भिः स्तबकैः, श्लेषसिद्धि-

प्रतानः पञ्चभिः स्तबकैः, अर्थसिद्धिप्रतान: सप्तभि:नः सप्तभिः स्तबकैः इत्येते तता विस्तीर्णाः ।

लताधर्मत्वात् प्रतानस्तबकारोपः ।
 
9
 
9
 

 
क्रमेण स्तबकानां नामान्याह-
-
 
अनुष्टुपचाप्छासनं छन्दोऽभ्यासः सामान्यशब्दकः ।

वादो वर्ण्यस्थितिः पूर्वप्रताने स्तबका मताः ॥ ३ ॥
 
(

 
[^
)] इदं ख० पुस्तकेऽधिकम् ।