2023-04-12 04:24:18 by ambuda-bot
This page has not been fully proofread.
॥ श्रीः ॥
श्रीमदरिसिंह निर्मितसूत्रसहिता
श्रीमदमरचन्द्रविरचिता
काव्यकल्पलतावृत्तिः ।
विमृश्य वाङ्मयं ज्योतिरमरेण यतीन्दुना ।
काव्यकल्पलताख्येयं कविशिक्षा प्रतन्यते ॥ १ ॥
सारस्वतामृतमहार्णवपूर्णिमेन्दोर्मत्वाऽरिसिंह सुकवेः कवितारहस्यम् ।
किंचिञ्च तद्रचितमात्मकृतं च किंचिद्वयाख्यास्यते त्वरितकाव्यकृतेऽत्र सूत्रम् ॥
शास्त्रारम्भे (१) शास्त्रकारः समुचितेष्टदेवतानमस्कारपूर्व शास्त्रस्याख्यां प्रेक्षाव-
त्प्रवृत्त्यङ्गप्रयोजनमुक्तमभिधेधं चाह-
वाचं नत्वा महानन्दकरसत्काव्यसम्पदे ।
कविशिक्षामिमां वच्मि काव्यकल्पलताहयाम् ॥ १ ॥
वाचं नत्वेति श्रेयोहेतुः; श्रेयसा ह्यविघ्नेन शास्त्रसमाप्तिर्भवति, महानन्दकरं
यत्सत्काव्यं तस्य या सम्पद् वृद्धिस्तदर्थम् सद्यो रसास्वादजन्मा विगलितवेद्या-
न्तरा परब्रह्मरसास्वादसोदरा परप्रीतिर्महानन्दः, इदं सर्वप्रयोजनोपनिषद्भतं कवि-
सहृदययोः काव्यप्रयोजनम् । कल्पलताऽपि सङ्कल्पमात्रलभ्यत्वेन सहानन्दकरी सत्का
व्या सद्भिर्वर्ण्या या सम्पत् तदर्थ स्यात् । महानन्दः प्रयोजनं, तद्युक्तं सत्काव्यमभिधेयं,
शास्त्रमभिधायकं, तयोरभिधानाभिषेयलक्षणः सम्बन्धः । शेषं सुगमम् ।
शास्त्र सङ्ग्रहमाह -
चत्वारो ऽत्र च्छन्दःशब्दश्लेषार्थसिद्धिनामानः ।
क्रमशस्तताः प्रतानाः पञ्चचतुष्पञ्चसप्तभिः स्तबकैः ॥ २ ॥
सिद्धिशब्द: प्रत्येकं योज्यः, स्तबकसंख्या यथासंख्यम् । अत्र काव्यकल्पलतायां
छन्दः सिद्धिप्रतानः पञ्चभिः स्तबकैः शब्दसिद्धिप्रताश्चतुर्भिः स्तबकैः श्लेषसिद्धि-
प्रतानः पञ्चभिः स्तबकैः अर्थसिद्धिप्रतान: सप्तभि: स्तबकैः इत्येते तता विस्तीर्णाः ।
लताधर्मत्वात् प्रतानस्तबकारोपः ।
9
9
क्रमेण स्तबकानां नामान्याह-
अनुष्टुपचासनं छन्दोऽभ्यासः सामान्यशब्दकः ।
वादो वर्ण्यस्थितिः पूर्वप्रताने स्तबका मताः ॥ ३ ॥
( १ ) इदं ख० पुस्तकेऽधिकम् ।