This page has been fully proofread once and needs a second look.

प्रथमा दृष्टि: ।
 
अत्र तार्क्ष्य इति । यत्र यत्र पदं साधु तत्र तत् च्युतसंस्कृति । तत्र
अर्थे यथा--
 
भवन्त्येव गुणास्तेषां तिष्ठन्ते ये सदन्तिके ।
कीरा धीरालये देवीरुद्भिरन्ति वचस्ततीः ॥
 
अत्र तस्मै कस्तिष्ठत इत्यत्र प्रकाशनार्थे नियमनमात्मनेपदस्य
गतिनिवृत्त्यर्थे त्वसाधुतैव । तस्मात् 'ये तिष्ठन्ति सदन्तिके' इति पठ-
नीयम् ।
 
नन्विदं पदं साधु भवत्येव । परन्तु हन्तीति पदमुपसन्दानं
यथा गमनार्थे तथा तिष्ठत इति पदं विना चतुर्थीमसमर्थमित्यस्व-
रसादाह---
 
तत्तद्व्याकरणासाधु पदं वा च्युतसंस्कृति ॥
 
तत्तद्व्याकरणेति । यथा भाषया यत्काव्यं क्रियते तद्भाषासाधुता-
प्रयोजकव्याकरणासाध्वित्यर्थः । तेन प्राकृतभाषाद्यारब्धकाव्यदोषस-
ङ्ग्रहः । यथा---
 
महाराजन्नयं पाणिस्तव कल्पद्रुमायते ।
अमुना दीयते यस्मादर्थेिभ्यः फलमीप्लितम् ॥
 
अत्र महाराजन्निति । 'धराधीश भवत्पाणिर्भुवि कल्पद्रुमायते' इति
पठनीयम् ।
 
पदं तथा समाम्नातमपि व्याकरणादिभिः ॥ ७ ॥
कव्यनादरपात्रं यदप्रयुक्तं तदुच्यते ॥
 
तथेति दुश्च्यवनपदस्य शक्रत्वप्रकारकप्रतीतौ सामर्थ्यमप्यस्ति,
परन्तु कवीनामप्रयोगविषयत्वादप्रयुक्तत्वमित्यर्थः । न च निहतार्थेन
सङ्करः, अनेकार्थत्वाभावात् । नाऽप्यवाचकेन तात्पर्यविषयधर्मप्रकारक-
प्रतीतेर्जनकत्वात् । यथा ---
 
पङ्कासक्तिमतो लोकान् सत्कुर्वन्ति न साधवः ।
पद्मान्निशामुखे भासा न भासयति चन्द्रमाः ॥