This page has not been fully proofread.

प्रथमा दृष्टि: ।
 

 

 
अत्र तार्क्ष्य इति । यत्र यत्र पदं साधु तत्र तत् व्युतसंस्कृति । तत्र

अर्धे यथा-

 
भवन्त्येव गुणास्तेषां तिष्ठन्ते ये सदन्ति ।
 

कीरा धीरालये देवीरुद्भिरन्ति वचस्ततीः ॥
 

 
अत्र तहमै कस्तिष्ठतं इत्यत्र प्रकाशनार्थे नियमनमात्मनेपदस्य

गतिनिवृत्यर्थे त्वसाधुव । तस्मात् 'ये तिष्ठन्ति सदन्ति इति पठ
 

नीयम् ।
 

 
नन्विदं पदं साधु भवत्येव । परन्तु हन्तीति पदमुपसन्दानं

यथा गमनार्थे तथा तिष्ठत इति पदं विना चतुर्थीमसमर्थमित्य स्व-

रसादाह-
--
 
तत्तड्याकरणासाधु पदं वा च्युतसंस्कृति ॥
 

 
तत्तध्याकरणति । यथा भाषया यरकाव्यं क्रियते तद्भाषासाधुता

प्रयोजकव्याकरणासाध्वित्यर्थः । तेन प्राकृत भाषाघारब्धकाव्यदोषस-

ङ्ग्रहः । यथा-
--
 
महाराजनयं पाणिस्तव कल्पद्रुमायते ।
 

अमुना दीयते यस्मादर्थेिभ्यः फलमीप्लितम् ॥

अत्र महाराजनिति । 'धराधीश भवत्पाणिर्भुवि कल्पद्रुमायते इति

पठनीयम् ।
 

 
पदं तथा समाम्नातमपि व्याकरणादिभिः ॥ ७ ॥

कव्यनादरपात्रं यदप्रयुक्तं तदुच्यते ॥
 

 
तथेति दुश्च्यवनपदस्य शकत्वप्रकारकप्रतीतो सामर्थ्यमध्यस्ति,

परन्तु कवनामप्रयोगविषयत्वादप्रयुक्तत्वमित्यर्थः । न च निहतार्थेन

सङ्करः, अनेकार्थत्वाभावात् । नाऽप्यवाचकेन तात्पर्यविषयधर्मप्रकारक-

प्रतीतेर्जनकत्वात् । यथा -
 
--
 
पङ्कासक्किमतो लोकान् सत्कुर्वन्ति न साधवः ।

पद्मानिशामुखे भासा न भासयति चन्द्रमाः ॥