This page has been fully proofread once and needs a second look.


 
काव्यडाकिन्या:
 
स्
त्त्वम् । व्याध्प्यता तु भेदाऽभेदसाधारणी । तेन सकलरसप्रतिबन्ध के

साधुत्यादौ नाव्याप्तिः ।
 

 
पदादिस्थः स पञ्चधा ॥
 

 
आदिशब्दात्पवैकदेशवाक्यार्थरसा गृह्यन्ते । पञ्चधेति पदं तद्गुणसं-

विज्ञानबहुव्रीहिस्फोरणार्थम् । अथ वा ऽलङ्कारदोषाणामातिरेक्यव्य
व-
च्छेदाय । तेषामेष्वन्तर्भावो वक्ष्यते । तस्मात्पद्मादाय तत्तद्वृत्तिताभेदा

द्
दोषस्य पञ्चविधत्वमुपपत्रमिति ।
 

 
क्रमेण तद्भेदानाद-
-
 
पदेऽस्ति श्रोत्रकटुता च्युतसंस्कृतिता तथा ॥ ३ ॥

अप्रयुक्ताऽसमर्थत्वे निहताऽनुचितार्थते ।

अवाचकनिरर्थत्वे ग्राम्यसन्दिग्धते तथा ॥ ४ ॥

अश्लीलत्वाऽप्रतीतत्वे नेयार्थल्किष्टते तथा ॥

अविमृष्टविधेयांशविरुद्धमतिकारिते ॥ ५ ॥

एवं षोडशधा दोषः पदवर्ती प्रकीर्तितः ॥

 
त्र क्लिष्टत्वादीनां त्रयाणां समास एव पददोषत्वमन्येषां त्वसमा
-
से पीति विशेषः । क्रमेणषां लक्षणमाह-
-
 
श्रोत्रकटु समाख्यातं माधुर्याव्यञ्जकं पदम् ॥ ६ ॥
 

 
यत् माधुर्यगुणं न व्यनक्ति तत्पदं श्रोत्रकटुत्वदोषवदित्यर्थः । श-

व्ददोषस्य शब्दघटितं लक्षणं सर्वत्र बोध्यम् ।
 

 
ननु प्रतिकूलवर्णेऽतिव्याप्तिरिति चेत् न । यत्र ओजोव्यञ्जनयोग्या
पष

एव
वर्णा रसविरुद्धास्तदिति सूत्रार्थः । तत्र सुकुमाराणामपि वर्णानां

रसप्रतिकूलत्वात् । यथा -
 
-
 
मानोरगदंशाया जीवितनाथे नते पदयोः ।

नवजलधरधीरध्वनिरभवत्तार्क्ष्यो मनस्विन्याः ॥