2023-04-09 09:22:30 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
॥ श्रीः ॥
मैथिलश्रीगङ्गानन्दकवीन्द्रनिर्मिता
काव्यडाकिनी ।
श्रीसिद्धेश्वर्यै नमः ।
पायाच्चिराय भवतः सकलादपाया-
त्कंसारिचारुकरवारिजवर्तिवेणुः ॥
आभीरवामनयनाचयचित्तवित्त-
चौर्याय सन्धिरिव निस्वनतस्करस्य ॥ १ ॥
काव्यदोषाऽवबोधाय कवीनां तमजानताम् ॥
गङ्गानन्दकवीन्द्रेण क्रियते काव्यडाकिनी ॥ २ ॥
तत्र-
मुख्यावरोधक्रुद्दोषः,
मुख्यो रसः । अवरोधकृत् प्रतिबन्धकः । रसमात्रप्रतिबन्धकताव-
च्छेदकरूपवानित्यर्थः । तत्तु रूपं श्रोत्रकटुत्वादेरेव, न चपेटापातनादेः।
प्रतिबन्धकता तु क्वचित्साक्षात् क्वचित्परम्परया चेत्यालोचनीयम् ।
ननु श्रोत्रकटुत्वादेः रौद्रादिरसबुद्ध्यनवरोधकत्वात्तत्राध्याप्तिरि-
त्यत आह--
यस्य ज्ञाने सति क्वाऽपि प्रतिबन्धोऽस्ति तत्र सः ।
अत पवाऽस्य दोषस्य प्रोक्ता धीरैरनित्यता ॥
स दोषः । अस्य श्रोत्रकटुत्वादेः । तथा च रसत्वव्याप्य धर्माव-
च्छिन्नोपस्थितिप्रतिवध्यतानिरूपितप्रतिबन्धकतावच्छेदकरूपवत्वं त-