This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 

 
मैथिल श्रीगङ्गानन्दकर्षावीन्द्रनिर्मिता

काव्यडाकिनी ।
 

 
श्रीसिद्धेश्वर्यै नमः ।
 

 
पायाच्चिराय भवतः सकलादपाया-

त्कंसारिचारुकरवारिजवर्तिवेणुः ॥

आभीरवामनयनाचयचित्तवित्त-

चौर्याय सन्धिरिव निस्वनतस्करस्य ॥ १ ॥

काव्यदोषाऽवबोधाय कवीनां तमजानताम् ॥

गङ्गानन्दकवीन्द्रेण क्रियते काव्यडाकिनी ॥ २ ॥
 
तत्र-

 

 
तत्र-
मुख्यावरोधक्रुद्दोषः,
 

 
मुख्यो रसः । अवरोधकृत् प्रतिबन्धकः । रसमात्रप्रतिबन्धकताव.
-
च्छेदकरूपवानित्यर्थः । तत्तु रूपं श्रोत्रकटुत्वादेरेव, न चपेटापातनादेः।

प्रतिबन्धकता तु क्वचित्साक्षात् क्वचित्परम्परया चेत्यालोचनीयम् ।
 

ननु श्रोत्रकटुत्वादेः रौद्रादिरसबुद्ध्यनवरोधकत्वात्तत्राध्याप्तिरि-

त्यत आह-
-
 
यस्य ज्ञाने सति क्वाऽपि प्रतिबन्धोऽस्ति तत्र सः ।

अत पवाऽस्य दोषस्य प्रोक्ता धीरैरनित्यता #
 

 
स दोषः । अस्य श्रोत्रकटुत्वादेः । तथा च रसत्वव्याप्य धर्माव
-
च्छिन्नोपस्थितिप्रतिवध्यतानिरूपित प्रतिबन्धकतावच्छेदकरूपवत्वं त
 
-