This page has been fully proofread once and needs a second look.

पञ्चमी दृष्टि ।
 
केचित्तु 'जगाद मधुरां वाचं' इत्यादौ 'जगाव' इत्यनेनाऽवगतार्थस्था-
या-
ऽपि 'वाचं'इत्यस्य 'मधुरां' इत्यादिविशेषणदानार्थमुपादानमिच्छन्ति,

न्न । 'जगाद मधुरं' इति क्रियाविशेषणेनोपपत्तीतौ 'वावंचं' इत्यस्य सर्व
-
थाऽनुपयोगः ।
 

 
यत्र तु गतार्थस्याऽपि किक्रियाविशेषणेऽपि नाऽन्वयस्तत्र विशेष्यस्य

प्रयोगः कार्यः । यथा-
-
 
चरणत्रपरित्राणहिताभ्यामपि द्रुतम् ।

पादाभ्यां दूरमध्वानं व्रजश्शेन्नेष न विखिद्यते ॥
 

 
अत्र 'चरणत्रपरित्राणरहितं व्रजन्' इत्युक्ते सति तुरङ्गादिना गमन-

सम्भवे तात्पर्यगोचराऽन्वयाऽनुपपत्तेरवश्यं पादाभ्यामिति प्रयोज्यम् ।
 

 
ननु शैलाऽधित्यकाकरिकलभकरिबृंहिताऽश्व हेषामयूरकेकादिश-

ब्दप्रयोगेष्वधित्यकादिशब्दैर्गतार्थानां शैलादिशब्दानामपुष्टार्थत्वमिति

चेत् न, अधित्यकादिषु दुरारोहत्व प्रौढिगाम्भीर्यमासलत्वमादकत्वादिप्र
-
तीत्यर्थं शैलादिशब्दाः प्रयुज्यन्ते । नन्वेवं यथाकथञ्चित्प्रये। योजनसद्भा
-
वे कुत्रापि दोषो न स्यात् इति चेत्, सत्यम् । स्थितेष्वेतत्समर्थनम्, न तु

सर्वथा रमणीयम् । जघनकाञ्चन्व्यादिपदं कचिभिरप्रयुज्यमानं कर्णाव
-
संसादिवन्न समाधेयम् ।
 

 
शाब्दिके प्रतिपाद्ये तु न दोषः कष्टता भवेत् ॥१५॥
 

 
यथा-

योरिह समानरूपयोरेक शेषमपराविलोकनम् ।

चेद्व्यधत्त कृतघीधीविधिर्विधिर्द्वन्द्वहूति मकरोत्तदा कुतः ॥
 

 
विश्रुतेऽर्थे निर्हेतुत्वमदोषः परिकीर्तितः ॥