This page has not been fully proofread.

पञ्चमी दृष्टि ।
 
केचित्तु 'जगाद मधुरां वाचं' इत्यादौ 'जगाव' इत्यनेनाऽवगतार्थस्था-
ऽपि 'वाचं'इत्यस्य 'मधुरां' इत्यादिविशेषणदानार्थमुपादानमिच्छन्ति,
तन । 'जगाद मधुरं' इति क्रियाविशेषणेनोपपत्ती 'वावं' इत्यस्य सर्व
थाऽनुपयोगः ।
 
यत्र तु गतार्थस्याऽपि कियाविशेषणेऽपि नाऽन्वयस्तत्र विशेष्यस्य
प्रयोगः कार्यः । यथा-
चरणत्रपरित्राणहिताभ्यामपि द्रुतम् ।
पादाभ्यां दूरमध्वानं व्रजश्शेष न विद्यते ॥
 
अत्र 'चरणत्रपरित्राणरहितं व्रजन्' इत्युक्ते सति तुरङ्गादिना गमन-
सम्भवे तात्पर्यगोचराऽन्वयाऽनुपपत्तेरवश्यं पादाभ्यामिति प्रयोज्यम् ।
 
ननु शैलाऽधित्यकाकरिकलभकरिबृंहिताऽश्व हेषामयूरकेकादिश-
ब्दप्रयोगेष्वधित्यकादिशब्दैर्गतार्थानां शैलादिशब्दानामपुष्टार्थत्वमिति
चेतन, अधित्यकादिषु दुरारोहत्व प्रौढिगाम्भीर्यमासलत्वमादकत्वादिप्र
तीत्यर्थं शैलादिशब्दाः प्रयुज्यन्ते । नन्वेवं यथाकथञ्चित्प्रये। जनसद्भा
वे कुत्रापि दोषो न स्यात् इति चेत्, सत्यम् । स्थितेष्वतत्समर्थनम्, न तु
सर्वथा रमणीयम् । जघनकाञ्चन्यादिपदं कचिभिरप्रयुज्यमानं कर्णाव
संसादिवन्न समाधेयम् ।
 
शाब्दिके प्रतिपाद्ये तु न दोषः कष्टता भवेत् ॥१५॥
 
यथा-
आषयोरिह समानरूपयोरेक शेषमपराविलोकनम् ।
चेद्यधत कृतघीविधिर्विधिर्द्वन्द्वहूति मकरोत्तदा कुतः ॥
 
विश्रुतेऽर्थे निर्हेतुत्वमदोषः परिकीर्तितः ॥