This page has been fully proofread once and needs a second look.

काव्यडाकिन्या:
 
अपदस्थ समासत्वं गुणः कुत्राऽपि कथ्यते ॥
 

 
'रङ्को ! रङ्कजनाय पङ्कजदृशो वृत्तान्तमाख्याहि' इत्यादौ कुपितस्यो-
को

क्तौ
'वाताद्वेल्लित' इत्यादिना समासविरचना गुणः ।
 

 
सङ्कीर्णत्वं गुणः काक्वाऽपि सुधीःधीभिः परिगद्यते ॥
 

 
यथा-
-
त्वामेव पश्यति स्वप्ने ध्यायति त्वां च जाग्रती ।

सर्वदा सा कुरङ्गाक्षी जानीहि त्वत्परायणा

 
अत्र 'जानीहि' इति दृढप्रत्ययोत्पादनाय गुणः ।
 

 
क्वाऽप्यपुष्टत्वमर्थानामदोषः परिकीर्तितः ॥
 

 
'अर्थानां'
इति बहुवचनमविवक्षितम् । यथा -
--
कर्णावतंससंशोभी शिरःशेखरवानयम् ।

धनुर्ज्यालक्ष्मणा भूयः शोभते बाहुना रणे
 

 
अत्र यद्यव्वप्यवतंसादि कर्णाद्याभरणमेव, तथाऽपि कर्णाशिरःशब्दावव-

तंसादेः कर्णादिसान्निध्यप्रतिपत्त्यर्थम् । धनुःशब्दोऽध्या प्यारुढिप्रतिपत्त्यर्थ.
-
मुपान्नत्तः । केवलस्तु ज्याशब्दो नारोहणप्रतिपत्तये । यथा-
-
 
गतं कुत्र दशग्रीव । बाहोवर्यर्वीर्यं तदाऽस्य ते ।
 

सहस्रबाहुना गाढं ज्याबन्धोऽस्मिन् कृतो यदा
 

 
अत्र निरुपपदो ज्याशब्दः । एवं श्रवणकुण्डलपदमपि श्रवणसा-

न्
निध्यबोधनाय बोध्यम् । हारपदेन मुक्काताहार एवोच्यते, मुक्काताशब्दो-

पादानं हारस्य केवलमुक्काताघटितत्वबोधनाय । तेन मुक्तापदप्रयोगः ।
 

 
पुष्पमालेव बालेयं कस्य नामोदहेतवे ।
 

इत्यादीदौ मालाशब्दन पुष्पशब्दस्य गतार्थत्वात् पुष्पशब्दोपादानं

पुनरुत्कृष्टपुष्पप्रतीतये ।