This page has been fully proofread once and needs a second look.

पश्चमी दृष्टिः ।
 
न्यूनपदत्वं क्वचिदप्यदूषणं कुत्रचित्तु गुणः ॥
 

 
कमेण यथा -
 
-
एतद्वारिरुहं भवेत्पुनरितः पाथो न सन्दृश्यते
 

चन्द्रोऽयं हरते दृशौ दिशि सरत्यस्य प्रकाशोऽहनि ।

आनन्दः प्रकटीभवत्ययमितः सोऽमूर्तिमान् विश्रुतः
 

कान्ताऽऽलाम्बि मुखं किमेतदिति मे चेतो मुहुर्मुह्यति ॥

 
अत्रोत्तरवाक्यस्य पूर्ववाक्यनिषेधं प्रति हेतुत्वप्रतिपत्तये 'नैतद्यतः '

इति पदानि न्यूनानि दातुमुखिचितानि, विशेषप्रतीत्यजनकतया पुनस्तानि

नोपात्तानि, अतो न गुणः । न वा पूर्वप्रतीतिमुत्तरा प्रतिपत्तिः स्थगय-
स्थ

स्य
तो न दोषः । बाध्यबाधक भावस्त्वर्थादेव लब्धः ।

 
गाढालिङ्गनवामनीकृतकुचप्रेोरोद्भिन्नरोमोनमा
 
द्गमा
सान्द्रस्नेहरसातिरेकविगलच्छ्री मन्त्रिनितम्बाम्बरा ।

'मा मा मानद ! माति मामल'मिति क्षामाक्षरोल्लापिनी

सुप्ता किं नु मृतानु किं मनासनसि मे लोना विलीना नु किम् ॥

 
अत्र 'माऽति' इत्यत्र 'पीडय' इति न्यूनपदस्य रसपोषकतया

गुणत्वम् ।
 

 
गुणोऽधिकपदत्वं तु धीरैः कुत्राऽपि कथ्यते ॥
 

 
यथा-

 
-
शिखिपिच्छधरः क एष भित्तौ लिखितोऽस्तीति सखीजनेन पृष्टा ।

न न वक्ति परं तु वक्ति राधा वपुरुचरद्यत्पुलकाङ्कुरच्छलेन

 
अत्र द्वितीयं 'वक्ति' इति पदमन्ययोगव्यवच्छेदाय ।

 
यथा वा काव्यप्रकाशे-
चद प
-
वद व
द जितः स शत्रुर्न इतो जल्पन् तव तवाऽस्मीति ।

चित्र चित्रमरोदीद्धा ! हेति परं मृते पुत्रे ॥
 

 
इत्यादीदौ हर्षशोकाधाद्यविष्टे वक्तरि अधिकपदत्वं गुणः ।