This page has not been fully proofread.

पश्चमी दृष्टिः ।
 
न्यूनपदत्वं क्वचिदप्यदूषणं कुत्रचित्तु गुणः ॥
 
कमेण यथा -
 
एतद्वारिकहं भवेत्पुनरितः पाथो न सन्दश्यते
 
चन्द्रोऽयं हरते दृशौ दिशि सरत्यस्य प्रकाशोऽहनि ।
आनन्दः प्रकटीभवत्ययमितः सोऽमूर्तिमान् विश्रुतः
 
कान्ताऽऽलाम्बि मुखं किमेतदिति मे चेतो मुहुर्मुह्यति ॥
अत्रोत्तरवाक्यस्य पूर्ववाक्यनिषेधं प्रति हेतुत्वप्रतिपत्तये 'नैतद्यतः '
इति पदानि न्यूनानि दातुमुखितानि, विशेषप्रतीत्यजनकतया पुनस्तानि
नोपात्तानि, अतो न गुणः । न वा पूर्वप्रतीतिमुत्तरा प्रतिपत्तिः स्थगय-
स्थतो न दोषः । बाध्यबाधक भावस्त्वर्थादेव लब्धः ।
गाढालिङ्गनवामनीकृतकुचप्रेोद्भिनरोमोनमा
 
सान्द्रस्नेहरसातिरेकविगलच्छ्री मन्त्रितम्बाम्बरा ।
'मा मा मानद ! माति मामल'मिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृतानु किं मनास मे लोना विलीना नु किम् ॥
अत्र 'माऽति' इत्यत्र 'पीडय' इति न्यूनपदस्य रसपोषकतया
गुणत्वम् ।
 
गुणोऽधिकपदत्वं तु धीरैः कुत्राऽपि कथ्यते ॥
 
यथा-

 
शिखिपिच्छधर क एष भित्तौ लिखितोऽस्तीति सखीजनेन पृष्टा ।
न न वक्ति परं तु वक्ति राधा वपुरुचरपुलकाङ्करच्छलेन ।
अत्र द्वितीयं 'वक्ति' इति पदमन्ययोगव्यवच्छेदाय ।
यथा वा काव्यप्रकाशे-
चद पद जितः स शत्रुर्न इतो जल्पन तव तवाऽस्मीति ।
चित्र चित्रमरोदीद्धा हेति परं मृते पुत्रे ॥
 
इत्यादी हर्षशोकाधाविष्टे वक्तरि अधिकपदत्वं गुणः ।