This page has been fully proofread once and needs a second look.

काव्पडाकिन्याः
 
समाप्तपुनरात्तत्वं न दोषो न गुणः क्वचित् ॥ ११ ॥
 

 
'क्वचित्' इति । यत्राऽन्यदेव वाक्यं विधीयते तत्रेत्यर्थः । यथा प्रागु
-
दाहृते 'उद्दामधुनीद्युती'त्यादौ 'पाञ्चाली' त्यादेग्रहणं वाक्यान्तरविधानाय, न

पुनर्विशेषणदानाय । यत्र तु समाप्ते वाक्यार्थे विशेषणं विधीयते तत्र

दोषः ।
 

 
गुणः पतत्प्रकर्षव्वं कत्रचित्तु निगद्यते ॥
 
५४
 

 
यथा पूर्वोदाहृते 'उद्दमद्युती'त्यादौ चतुर्थपादे रौद्ररसाभावादनु-

द्ध
तारचना गुणः
 

 
अर्थान्तरसङ्क्रमिते वाच्ये विहितस्य चाऽनुवाद्यत्वे ॥

लाटानुप्रासार्थे कथितपदत्वं गुणो भवति ॥
 

 
क्रमेण यथा
 
--
नाट्यं नातिसुखं मदीय रसनारङ्गे रसास्वादन -
 

स्निग्धे ! लास्यनिधे ! बत प्रतिपदं वाणि ! स्खलन्त्यास्तव ।

उत्प्रेक्षातिशयोक्तिपूर्वकपदन्यासं पुनस्तन्वती
 

नृत्यस्यत्र यदा तदा भगवति ! स्यात्ताण्डवं ताण्डवम् ॥

 
अत्र द्वितीयताण्डवपदं लोकानुरञ्जकत्वलक्षणेऽर्थे सङ्क्रान्तम् ।
 

 
व्युत्पत्तिः काव्यहेतुः स्यादर्थः काव्यादवाप्यते ।

अर्थाप्त्या जन्यते कीतिजांर्जाता कीर्तिः स्वरास्पदम् ॥
 

 
अत्र काव्यादीनामुत्तरोत्तरं प्रति तदा कारणता निर्वहति यदि तेनै-

व पदेन सर्वनामपदेन वा कथ्यतेऽतो विहितस्याऽनुवाद्यत्वे कथितपद-

त्वं गुणः ।
 

 
सुधारुचिरुचिद्योतिद्योतिलोकत्रये यशः ।

तव भाति रापाल ! धरापालकृतानते ! ॥