This page has not been fully proofread.

काव्पडाकिन्याः
 
समाप्तपुनरात्तत्वं न दोषो न गुणः क्वचित् ॥ ११ ॥
 
'कचित्' इति । यत्राऽन्यदेव वाक्यं विधीयते तत्रेत्यर्थः । यथा प्रागु
दाहते 'उद्दामधुनी'त्यादौ 'पाञ्चाली' त्यादेग्रहणं वाक्यान्तरविधानाय, न
पुनर्विशेषणदानाय । यत्र तु समाप्ते वाक्यार्थे विशेषणं विधीयते तत्र
दोषः ।
 
गुणः पतत्प्रकर्षव्वं कत्रचित्तु निगद्यते ॥
 
५४
 
यथा पूर्वोदाहृते 'उद्दमद्युती'त्यादौ चतुर्थपादे रौद्ररसाभावादनु-
खतारचना गुणः
 
अर्थान्तरसङ्क्रमिते वाच्ये विहितस्य चाऽनुवाद्यत्वे ॥
लाटानुप्रासार्थे कथितपदत्वं गुणो भवति ॥
 
क्रमेण यथा
 
नाट्यं नातिसुखं मदीय रसनारङ्गे रसास्वादन -
 
स्निग्धे ! लास्यनिधे ! बत प्रतिपदं वाणि ! स्खलन्त्यास्तव ।
उत्प्रेक्षातिशयोक्तिपूर्वकपदन्यासं पुनस्तन्वती
 
नृत्यस्यत्र यदा तदा भगवति । स्यात्ताण्डवं ताण्डवम् ॥
अत्र द्वितीयताण्डवपदं लोकानुरञ्जकत्वलक्षणेऽर्थे सङ्क्रान्तम् ।
 
व्युत्पत्तिः काव्यहेतुः स्यादर्थः काव्यादवाप्यते ।
अर्थात्या जन्यते कीतिजांता कीर्तिः स्वरास्पदम् ॥
 
अत्र काव्यादीनामुत्तरोत्तरं प्रति तदा कारणता निर्वहति यदि तेनै-
व पदेन सर्वनामपदेन वा कथ्यतेऽतो विहितस्याऽनुवाद्यत्वे कथितपद-
त्वं गुणः ।
 
सुधारुचिरुचिद्योतिद्योतिलोकत्रये यशः ।
तव भाति घरापाल । धरापालकृतानते ! ॥