This page has been fully proofread once and needs a second look.

रुएहि दुद्धदहिभत्तमणोहरेहि
कुंजाइं जाइं सहसा धवलीकुणंति ॥*
 
अत्र विदूषकस्योक्तौ दुग्धादिशब्दो ग्राभ्यः ।
 
वर्णानां प्रतिकूलत्वं गुणत्वेन मतं क्वचित् ॥ १० ॥
 
यथा--
रङ्को ! रङ्कजनाय पङ्कजदृशो वृत्तान्तमाख्यादि मे
सा नाऽऽलोकि मयेति शृङ्गचलनव्याजाद्ब्रवीषि स्फुटम् ।
वातोद्वेल्लितनीलनीरजदलोद्दामद्युतिद्रोहिणी
तद्दृष्टिर्यदि नेक्षिता निजदृशोः प्राप्तं चलत्वं कुतः ॥
 
अत्र 'मया नाऽऽलोकि' इत्यनेन क्रुद्धस्य नायकस्योक्तौ दीर्घसमास-
त्वमुद्धतवर्णगुम्फश्च गुणः ।
 
न गुणत्वं न दोषत्वं नीरसेष्वस्य दृश्यते ॥
 
यथा--
पक्षक्षेपणलक्षवन्दनपरैः प्रातः स्तुतः पक्षिभिः
क्षिप्रक्षीणतमोऽन्तरिक्षविलसत्क्षेमक्षमाच्छच्छविः ।
क्षिप्ताक्षुद्रकुलक्षणक्षितिजनाक्षैण्यप्रदो भास्करः
प्रक्षुब्धक्षणदाचरक्षयकरोऽक्षेमं क्षिणोतु क्षणात् ॥
 
नन्वत्र रविविषयकरतिभावोऽस्ति रसपदेन तस्याऽप्यभिधाना-
दिति चेत्, सत्यम् । नीरसत्वं रसाSतात्पर्यकत्व, मिह तु कवेरनुप्रासनि-
र्वाहे तात्पर्यसत्वात् ।
-------------------------------------------------------------------
* पुष्पाणि तानि रमणीयतराणीदानीं
मल्लीतरुणां मम चित्तप्रियाणि भवन्ति ।
रूपे र्दुग्धदधिभक्तमनोहरैः
कुञ्जानि यानि सहसां धवलाकुर्वन्ति ॥

इतिच्छाया [ संशोधकः ]