This page has been fully proofread once and needs a second look.

पञ्चमी दृष्टि ।
 
रुहि दुद्धदहिभन्त्तमणोहरेहि

कुंजाइं जाइं सहसा धवलीकुणंति ॥#
*
 
अत्र विदूषकस्योक्तौ दुग्धादिशब्दो ग्राभ्यः ।
 

 
वर्णानां प्रतिकूलत्वं गुणत्वेन मतं क्वचित् ॥ १० ॥
 

 
यथा-
-
रङ्कनेको ! रङ्कजनाय पङ्कजदृशो वृत्तान्तमाख्यादि मे
 

सा नाssऽऽलोकि मयेति शृङ्गचलनव्याजाह्नद्ब्रवीषि स्फुटम् ।

वातोद्वेल्लित
नीलनीरजदलोद्दामद्युतिद्रोहिणी
 
बातोद्वेल्लित
 
तद्हा

तद्दृ
ष्टिर्यदि नेक्षिता निजदृशोः प्राप्तं चलत्वं कुतः ॥

 
अत्र 'मया नाऽऽलोकि' इत्यनेन कुक्रुद्धस्य नायकस्योक्तौ दीर्घसमास-

त्वमुद्धतवर्णगुम्फश्च गुणः ।
 

 
न गुणत्वं न दोषत्वं
दोषत्वं
नीरसेष्वस्य दृश्यते ॥
 

 
यथा-
-
पक्षक्षेपणलक्षवन्दनपरैः प्रातः स्तुतः पक्षिभिः

क्षिप्रक्षीणतमोऽन्तरिक्षविलसत्क्षेमक्षमाच्छच्छविः ।
 

क्षिप्ताक्षुद्रकुलक्षणक्षितिजनाक्षैण्यप्रदो भास्करः
 

प्रक्षुब्धक्षणदाचरक्षयकरोऽक्षेमं क्षिणोतु क्षणात् ॥
 

 
नन्वत्र रविविषयकरतिभावोऽस्ति रसपदेन तस्याsव्ऽप्यभिधाना-

दिति चेत्, सत्यम् । नीरसत्वं रसाSतात्पर्यकत्व, मिह तु कवेरनुप्रासनि.
वांदे
-
र्वाहे
तात्पर्यसत्वात् ।
 

-------------------------------------------------------------------
* पुष्पाणि तानि रमणीयतराणीदानीं
 

मल्
लीतरुणां मम चित्तप्रियाणि भवन्ति ।

रूपे र्दुग्धदधिभक्तमनोहरैः
 

कुञ्जानि यानि सहसां धवलाकुर्वन्ति ॥
 

 
इतिच्छाया [ संशोधकः ]