This page has been fully proofread once and needs a second look.

पञ्चमी दृष्टि ।
 
अत्र बीभत्सरसे व्यङ्ग्ये गुणत्वं परुषवर्णानाम् ।
 

 
वैयाकरणे वक्तरि श्रोतरि वा श्रोत्र काटवमदोषः ॥
 

 
उभयं यथा-

व्र
जन्तीमन्तिके काशियांञ्चिदुदञ्चिन्नयनां सखे !

मृगचक्षुषमद्राक्षं निर्निमेषेण चक्षुषा ।
 

 
अत्र वक्तृश्रोत्रोर्व्याकरणस्य सतसाऽऽसङ्गात् परुषवर्णा न श्रुत्यु-

द्वेजकाः ।
 

 
न दोषौ निहतार्थत्वाऽप्रयुक्तत्वे क्वचित् पुनः ॥
 

 
यथा-

नेत्रं यः कमलापतेर्जनयति प्रौढप्रमोदावली-
र्थः

र्यः
पाथोजगणेषु यः क्षितिभुजां बीजं जगद्विश्रुतः ।

यं छायापतिमूचिरे कृतधियो यश्चान्धकारापहः
 

सोऽयं सत्फलदायको हिमरुचिः पायादपायाज्जनान् ॥
 

 
अत्र हिमरुचिपक्षेपाथोजछायापतिशब्दौ निहतार्थाऽप्रयुक्तौ न दुष्टौ ।

 
अश्लीलत्वं गुणः क्वाऽपि ।
 

 
स्पष्टम् । शान्तोक्ता-
-
 
तौ--
दुर्गन्धिशटितक्रव्यसदृशे साधने स्त्रियः ।

रतिर्न दृश्यते प्रेतरारङ्कादन्यस्य कस्यचित् ॥
 

 
यथावा वेणीसंहारे-
-
निर्वाणवैरिदद्दनाः प्रशमादरीणां
 

नन्दन्तु पाण्डुतनयाः सह माधवेन ।
 

रक्तप्रसाधितभुवः क्षतविग्रहा
 
श्च
स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥