This page has not been fully proofread.

काव्यडाकिन्याः
 
पवमप्रस्तुत प्रशंसायामपि सामान्येन रूपेणोपमानप्रतीतो सत्यामु
पमानोपादानं दोषः, स चाऽपुष्टार्थत्वेन पुनरुक्तत्वेन घा व्याप्तः ।
 
यथा-
कर्तुं वाञ्छति झिल्लिका परभृतालापानुकारं वने
 
जम्बूकोऽपि पराक्रमं मृगपतेः सम्प्राप्तुमाकाङ्क्षति ।
भेको निन्दति गर्जितं जलमुचां प्रायः स्वकीयं बलं
 
जन्तुः क्षुद्रतरो न वेत्ति हिमकृत्स्पद्धव खद्योतकः ॥
अत्र खद्योतस्य प्रस्तुतप्रशंसया सामान्यमुखेनाऽवगती तदुपादानं
व्यर्थम् ।
 
तदन्येषामेवप्रायाणामध्यलङ्कारदोषाणां पूर्वोक्तदोषेष्घन्तर्भावो बोध्यः ।
 
प्रसङ्गादाह-
क्वचिद् गुणत्वं दोषस्य काऽप्यदोषत्वमुच्यते ॥
 
'गुणत्वं' इति मुख्यगुणानुकूलत्वात् दोषस्य गुणत्वव्यपदेश इत्यर्थः ।
वाच्ये समुद्धते व्यङ्गये गुण: स्याच्छ्रोत्रकाटवम् ॥८।
 
समुद्धते वाच्ये सिंहादौ, समुद्धते व्यङ्ग्ये रौद्रादौ श्रोत्रकटुत्वं गुणः
'समुद्धते' इति । 'काकाक्षिगोलक' न्यायेनोभयत्राऽन्वयि । क्रमेण यथा -
रे शार्दूलगणा ! मनागपि भवद्वासोऽत्र न श्रेयसे
 
यूयं शूकरयूथपाः ! प्रियतमासार्थेन निर्गच्छत ।
चक्षुःक्रूरकटाक्षवीक्षणपरिक्षिप्ताऽसुमत्तद्विष-
द्रोहोद्वेकनिराससालसमितः पञ्चामनः क्रीडति ॥
 
अत्र सिंहे वाच्ये श्रोत्रकटुत्वं गुणः ।
दन्ताकृष्टविदष्टसाऽस्थिपललवाताऽतिनिर्यन्त्रण-
कुराक्रान्तिसमद्भवत्कट कटत्कार
किया भैरवः ।
हस्तव्यस्तशवालिमस्तक सरन्मजाम्बुनिर्वाापित-
प्रौढप्रातचिताग्निकटतमः प्रेतोऽयमुज्जृम्भते ॥