This page has been fully proofread once and needs a second look.

पश्चमी दृष्टिः ।
 
४९
 
लोक प्रसिद्धिविरोधावुपमायामनुचितार्थत्वेन व्यपदिष्टौ, न तु पूर्वोक्ता-

ऽनुचितार्थता ।
 

 
उत्प्रेक्षायामपि 'मन्ये ध्रुवेवादयः शब्दाः सम्भावनं कर्तुं शक्नुव
-
न्ति, न तु यथाशध्दः । तस्य साम्यमात्रप्रतिपादकत्वात् साम्यस्था.
S
-
स्यामविवक्षितस्त्वादित्यवाचकत्वं दोषः ।
 

 
अयं भाति धराधीशः करवालभयङ्करः ।

रणे परिगृहीताः साक्षाद्वीररसो यथा ॥

 
उत्प्रेक्षितोऽप्यर्थो विविध्यमानः सन्नसत्कल्पतयोपाख्यामाऽनईस्तत्स
र्हस्तत्स-
मर्थनायाऽर्थान्तरन्यासः क्रियते स वामनकराकृष्यमाणश्चन्द्र इवाऽत्य
म्
-
न्
तमसत्य इत्यस्य निर्विषयत्वादपुष्टार्थत्वरूप मनौचित्यम् । यथा--
"
 

 
रविदर्शनहर्षेण प्रोत्फुल्लं भाति पङ्कजम् ।

नूनं मित्रावलोकेन वर्द्धन्ते जगतां मुदः ॥
 

 
अत्राऽचक्षुषः पङ्कजस्य दर्शनमेव नास्ति कुतस्तजनितो हर्षः, कथं

वा तत्समर्थनाय लब्धपदोऽर्थान्तरन्यासः स्यात् । तस्मादुत्प्रेक्षितोऽर्थो

भासमानः सन्न काञ्चिदत्प्यनुपपत्तिमधगाहते किमर्थं तत्समर्थनाय यक्षः ।
 
त्नः ।
 
समासोक्तिरपि साधारणविशेषण महिम्नोपमानविशेषमुपपादय-

ति । तस्याऽत्र पुनरुपादानं पुनरुक्ततायामपुष्टार्थतायां वा पर्यवस्यति ।

 
करेणाऽऽलिङ्गति प्राचीं हरितं तिग्मरोचिषि ।

निःप्रभेन्दुमुखी सद्यो बभूवाऽपरदिग्वधूः ॥
 

 
अत्र तिग्मरोचिषः प्राच्याश्च लिङ्गविशेषमहिम्ना 'करेण' इत्यत्र च

श्
लेषमर्यादया नायकत्वादिप्रतीति, स्तथैवाऽपरदिशः प्रतिनायिकात्वं

भविष्यति किमर्थं वधूपदोपादानम् । ननु श्लेषे सत्युपमानोपादानस्या.
S
-
ऽवश्यकत्वा,न्यथा श्लिष्टपदोपादानप्रयासो व्यर्थः स्यादिति चेत्, मै.
-
वम् । यत्रोपमानोपादानं विना साधारणविशेषणमहिम्ना नोपमानप्रती-

तिस्तत्र श्लेषोपमाया अवतारः । यथा -
 
--
 
पृथुलकुचा मदनवती तिलकयुता सालकाननोई।द्दीप्ता ।

मदकलकोकिलवाणी मधौ बनीवाऽङ्गना जयति !