This page has been fully proofread once and needs a second look.

काव्यडाकिन्याः
 
इत्यादौ भूमिभारवहन विद्यमानत्वाच्छेषो भूमिभारं वहति न तु

वहतु इति । अप्राप्तप्रापणरूपस्य विधेरभावात् । एवमादिरूपोऽर्थो यत्रो-

पमानगतत्वेनाऽसम्भवी तत्रापि विध्यादिभेदो बोध्यः ।
 

 
ननूपमाप्रयोजक साधारणधर्म एव कालादिभेदहेतुस्तस्मात्कालादि-

हेतुभिन्नं शाब्दमाशिष्यमाणं वा धर्मान्तरमुपादायोपमापर्यवसानं भवि
व्
-
ष्
यतीत्यतो दोषत्वमेव नाऽस्य, क्व पुनः पूर्वोक्तदोषेष्वन्तर्भावः । यत्र तु

'युधिष्ठिर इवाऽयं सत्यवादी सत्यं वदातेति' इति, अत्राऽतीत वर्तमानरूपका
-
लभेदे सत्यपि सत्यवादित्वरूपेण समानधर्मेणोपात्तेनोपमाप्रतीति-

रस्खलितैव । कालभेदस्य तत्राऽप्रयोजकत्वादिति चेत्, सत्यम् । परन्तु

स्थितष्वेतत्समर्थनं, न तु सर्वथा रमणीयम् । अथ वा सहृदया एवात्र

प्रमाणम् ।
 

 
उपमायामसम्भवोऽनुचितार्थत्वेन व्याप्तः । यथा-
-
भाति पाणितले तन्चि ! कस्तूरशिकलं तव ।

प्रातरुत्फुल्ल पाथोजे तमःखण्डमिव श्रितम् ॥
 

 
अत्र प्रातःकाले पद्मे तमःखण्डावस्थानमसम्भवीत्यर्थोपनिबन्ध.
-
नमनुचितम् ।
 

 
असादृश्यमुपमायामनुचितार्थत्वपर्यवसन्नम् । यथा-
स्
-
त्
वदीयं धरणीपाल ! दानपाथोजकारणम् ।

पश्यामि करकासारं खड्गशैबावालशोभितम् ॥
 

 
अत्र दानस्य पाथोजेन, करस्य च कासारेण, खड्गस्य शैवालेन क्वचि.
-
पि साम्यं नाऽवगम्यत इत्यनुचितार्थता । ननु खड्गस्य शैवालस्य च

न किञ्चित सादृश्यमस्तीति चेत् न, करस्य कासारनुल्यत्वे सिद्धे ख.
-
ड्गस्य शैवालतुल्यता सिद्धयेत् । न हि करस्य कासारसादृश्य हेतु
तुः
कश्चिदुद्गुणः प्रतीयते येन खड्गस्य शैवालतुल्यता सिद्धयेत् ।
 

 
यद्यपि 'व्यक्ति निन्दास्तोत्रे यत्' इत्यादिनाऽनुचितार्थत्वस्य शब्दनि
-ष्ठत्वेनाऽभिधानात्कथमनयोर्दोषयोस्तस्मिन्नन्तर्भावः, तथाऽपि काल
 
-