This page has not been fully proofread.

काव्यडाकिन्याः
 
इत्यादौ भूमिभारवहन विद्यमानत्वाच्छेषो भूमिभारं वहति न तु
वहतु इति । अप्राप्तप्रापणरूपस्य विधेरभावात् । एवमादिरूपोऽर्थो यत्रो-
पमानगतत्वेनाऽसम्भवी तत्रापि विध्यादिभेदो बोध्यः ।
 
ननूपमाप्रयोजक साधारणधर्म एव कालादिभेदहेतुस्तस्मात्कालादि-
हेतुभिनं शाब्दमाशिष्यमाणं वा धर्मान्तरमुपादायोपमापर्यवसानं भवि
व्यतीत्यतो दोषत्वमेव नाऽस्य, व पुनः पूर्वोक्तदोषेष्वन्तर्भावः । यत्र तु
'युधिष्ठिर इवाऽयं सत्यवादी सत्यं वदाते' इति, अत्राऽतीत वर्तमानरूपका
लभेदे सत्यपि सत्यवादित्वरूपेण समानधर्मेणोपात्तेनोपमाप्रतीति-
रस्खलितैव । कालभेदस्य तत्राऽप्रयोजकत्वादिति चेत्, सत्यम् । परन्तु
स्थितष्वेतत्समर्थनं, न तु सर्वथा रमणीयम् । अथ वा सहृदया एवात्र
प्रमाणम् ।
 
उपमायामसम्भवोऽनुचितार्थत्वेन व्याप्तः । यथा-
भाति पाणितले तन्चि ! कस्तशिकलं तव ।
प्रातरुत्फुल्ल पाथोजे तमःखण्डमिव श्रितम् ॥
 
अत्र प्रातःकाले पद्मे तमःखण्डावस्थानमसम्भवीत्यर्थोपनिबन्ध.
नमनुचितम् ।
 
असादृश्यमुपमायामनुचितार्थत्वपर्यवसन्नम् । यथा-
स्वदीयं धरणीपाल ! दानपाथोजकारणम् ।
पश्यामि करकासारं खड्गशैबालशोभितम् ॥
 
अत्र दानस्य पाथोजेन, करस्य च कासारेण, खड्गस्य शैवालेन कचि.
छपि साम्यं नाऽवगम्यत इत्यनुचितार्थता । ननु खड्गस्य शैवालस्य च
न किञ्चित सादृश्यमस्तीति चेत् न, करस्य कासारनुल्यत्वे सिद्धे ख.
ड्गस्य शैवालतुल्यता सिद्धयेत् । न हि करस्य कासारसादृश्य हेतु
कश्चिदुणः प्रतीयते येन खड्गस्य शैवालतुल्यता सिद्धयेत् ।
 
यद्यपि व्यक्ति निन्दास्तोत्रे यत्' इत्यादिनाऽनुचितार्थत्वस्य शब्दनि
एत्वेनाऽभिधानात्कथमनयोर्दोषयोस्तस्मिन्नन्तर्भावः, तथाऽपि काल