This page has been fully proofread once and needs a second look.

पञ्चमी दृष्टिः ।
 
श्लेषमर्यादया यत्र पदं साधर्म्यवाचकम् ॥

उभयान्वयि तत्राऽपि नाऽस्य दोषस्य संस्थितिः ॥ ६ ॥
 

 
वाचा सुधामुचा भासि करेणेव सुधाकरः ।

इत्यादावुपमानोपमेययोर्लिङ्गवैषम्येऽपि 'सुत्रामुचा' इति विशेषणमु.
-
भयत्राऽन्वेतीत्यस्खलितैव धीरुत्पद्यते ।
 

 
नीलरूपभृतः केशो निरानन्दितबर्हिणः ।
 

दघते तन्वि ! ते शोभां नूतना जलदा इव

 
अत्र 'दधते' इति रूपं दध्धारणघाधातोरेकवचनान्तं दधातेश्च बहु
-
वचनान्तं भिन्नवचनयोरुपमानोपमेययोरन्वेति । एवं च 'नीलरूपभृत'

इति 'निरानन्दितबर्हिणः' इति चोभे विशेषणे एकवचनान्तबहुवचनान्ते

तयोरेवाऽन्विते भवतः ।
 

 
कालस्य भेदो
दोषोऽत्र भग्नक्रप्रमतां गतः ॥
 
कालस्य मेदो दोषोऽत्र
 
४७
 

 
अत्र उपमानोपमेय प्रस्तावे । यथा -
 
--
 
सरस्वतीव शरदि प्रससाद प्रिया तव ।

इत्यादी सरस्वती प्रसीदति न तु प्रससाद इति कालभेदो भग्न-

प्रक्रमतायां तिरोहितः ।
 

 
पुरुषस्य भवेद्भेदो विध्यादेश्च तथा मतः ॥ ७ ॥
 

 
प्रथम मध्यमोत्तम रूपस्य पुरुषस्थाऽप्राप्तप्रापणरूपविधेश्च भेदो वि
-
स्खलितबोधजनकतया भग्नप्रक्रमान्तर्भावे मतः । क्रमेण यथा-
-
अनया कान्तिच्छटया विद्युदिवाऽऽभासि कमलनेत्रे ! त्वम् ।

इत्यादौ विद्युदाभाति न त्वाभासीति सम्बोध्यमानकामिनीनिष्ठ
-
मध्यमपुरुषभागोऽस्ति तस्याऽसम्बोध्यमानविद्युद्विषयतया व्यत्या-

सात् पुरुषभेदः ।
 

 
शेष इव भूमिभारं वहतु भुजस्ते धराधीश ! ।