This page has not been fully proofread.

पञ्चमी दृष्टिः ।
 
श्लेषमर्यादया यत्र पदं साधर्म्यवाचकम् ॥
उभयान्वयि तत्राऽपि नाऽस्य दोषस्य संस्थितिः ॥ ६ ॥
 
वाचा सुधामुचा भासि करेणेव सुधाकरः ।
इत्यादावुपमानोपमेययोर्लिङ्गवैषम्येऽपि 'सुत्रामुचा' इति विशेषणमु.
भयत्राऽन्वेतीत्यस्खलितैव धीरुत्पद्यते ।
 
नीलरूपभृतः केशो निरानन्दितबर्हिणः ।
 
दघते तन्वि ! ते शोभां नूतना जलदा इव ।
अत्र 'दधते' इति रूपं दध्धारणघातोरेकवचनान्तं दधातेश्च बहु
वचनान्तं भिनवचनयोरुपमानोपमेययोरन्वेति । एवं च 'नीलरूपभृत'
इति 'निरानन्दितबर्हिणः' इति चोभे विशेषणे एकवचनान्तबहुवचनान्ते
तयोरेवाऽन्विते भवतः ।
 
दोषोऽत्र भग्नक्रप्रमतां गतः ॥
 
कालस्य मेदो दोषोऽत्र
 
४७
 
अत्र उपमानोपमेय प्रस्तावे । यथा -
 
सरस्वतीव शरदि प्रससाद प्रिया तव ।
इत्यादी सरस्वती प्रसीदति न तु प्रससाद इति कालभेदो भग्न-
प्रक्रमतायां तिरोहितः ।
 
पुरुषस्य भवेद्भेदो विध्यादेश्च तथा मतः ॥ ७ ॥
 
प्रथम मध्यमोत्तम रूपस्य पुरुषस्थाऽप्राप्तप्रापणरूपविधेश्च भेदो वि
स्खलितबोधजनकतया भग्नप्रक्रमान्तर्भावे मतः । क्रमेण यथा-
अनया कान्तिटया विद्युदिवाऽऽभासि कमलनेत्रे ! त्वम् ।
इत्यादौ विद्युदाभाति न त्वाभासीति सम्बोध्यमानकामिनीनिष्ठ
मध्यमपुरुषभागोऽस्ति तस्याऽसम्बोध्यमानविद्युद्विषयतया व्यत्या-
सात् पुरुषभेदः ।
 
शेष इव भूमिभारं वहतु भुजस्ते धराधीश ! ।