This page has not been fully proofread.

४६
 
काव्य डाकिन्या:
 
उपमा प्रयोजकसाधारणाश्रयत्वे न्यूनाधिकत्धे न्यूनपदत्वाधिकप
दत्वयोरन्तर्भवतः । क्रमेण यथा -
 
कर्णोल्लसद्भ। स्वरकुण्डलाभ्यां नेत्राञ्जनेनाऽऽस्यमिदं त्वदीयम् ।
शरन्निशानाथ इवाऽवभाति पार्श्वस्थिताभ्यां गुरुभार्गवाभ्याम् ॥
अत्रोपमानस्य नेत्राञ्जनस्थानीयो लाञ्छनरूपो धर्मः केनाऽपि
प्रकारेण नोक्त इति हीनपदत्वम् ।
 
तं पयोदमिव वीक्ष्य सशम्पं वेपमानकमनीयकलापाः ।
ताण्डवानि विदधुस्त रुखण्डे दण्डकाननशिखण्डियुवानः ॥
 
अत्रोपमेयदिशि सीताया अनुपादानात् शम्पाग्रहणमतिरिक्तमि
त्यधिकपदत्वम् ।
 
लिङ्गवचनभेदेऽपि उपमानोपमेययोः साधारणो धर्मश्चेदसाधारणः
क्रियते, तदा तद्धर्मस्योपमानोपमेयान्यतरान्वयः । विशेषणसहितस्यो
पमानत्वमुपमेयत्वं वाऽध्याहारेणाऽप्यन्वयो धर्मस्य चेत्तदा तद्विशिष्ट
स्योपमानत्वाद्यस्फुटमित्येव क्रमभङ्ग इत्यस्य भग्नप्रक्रमत्वेऽन्तर्भावः ।
 
यथा-
यत्तारुण्यतरङ्गिताम्बुजहशो मध्यस्थलीवाऽस्फुटं
यत्प्राणा इव कामिनो: कुलभुवोरद्वैतमभ्यागतम् ।
अश्रान्ताकुलकान्त केलिविगलत्काञ्चीत्रयं निर्गुणं
 
ज्ञेयं यन्न कुलाङ्गनाप्रणयवद्वन्दामहे तन्महः ॥
 
अत्र स्त्रीलिङ्गावरुद्धोपमाने अस्फुट इति नाऽन्वेति । 'अभ्यागतम्'
इत्यस्याऽपि बहुत्वावरुद्धोपमानेऽनन्वयः ।
 
यत्तु 'इष्टः पुनपुंसकयोः प्रायेण इति सूत्रेण वामनाचार्येण लि-
ङ्गवचनभेदस्याऽदोषत्वमुक्तं, तत्तिङन्तपदप्रतिपाद्यसाधारणधर्मान्वये
बोध्यम् । तेन 'चन्द्र इव मुखं भाति' 'पास्यामि वदनं तस्याः पुष्पं
मधुलिहो यथा' इत्यादि सङ्गच्छते ।