This page has been fully proofread once and needs a second look.

पञ्चमी दृष्टिः ।
 
ग्ब्धार्थ: । कथः । क्रमेण यथा-
-
करं किरीटी वदनं विवस्वान् पदं पृथा चक्षुरपि क्षपेशः ।

रूपं रमा यस्य यमो यशांसि स्तौति स्तवैः, सोऽस्तु हरिर्हिताय ॥

 
अत्राऽनुप्रासानुरोधेन स्तुतिः कृता, न पुनः पुराणादिना तथा

कथितमस्तीति प्रसिद्धिविरोधः ।
 

 
करकलितकनककङ्कणनिक्कावाणः कर्णयोरनयोः ।
 
सहचार ।

सहचरि !
सहजमनोहरचरणे ! किं सौख्यमाख्याति !!

 
अत्र विवक्षित विवेकेन वाच्यार्थस्य न काऽपि चारुतेत्यपुष्टाते.
बा
र्थतै-
वा
ऽनुप्रासस्य वैफल्यम् ।
 

 
कष्टमिष्टेन संश्लिष्टा स्पष्टदष्टौष्ठसम्पुटा ।
 

दृष्ट्या निश्चेष्ट्रयाऽचष्ट बिम्बौष्ठी नष्टचेष्टताम् ॥

 
अत्र श्रुत्युद्वेजकवर्णन्यासः शृङ्गारे न युज्यत इत्युपनागरिकावृत्ति.
-
विरोधः ।
 

 
गतार्थः ।
 

 
हरिणायतनेत्राणां हरिणा वंशिकास्वनैः ।

हृ
ते चित्ते बभ्रुभुवुस्ता हरिणाननकान्तयः ॥
 

 
अत्र
यमकस्य पादत्रयगतत्वेन यमनं दोषः, सोऽप्रयुक्तत्वेन
 

गतार्थः ।
 
परिमाणजातिगतं न्यूनत्वमधिकत्वं चा यत्रोपमायामुपमानस्य, तत्र

सहचरभिन्नत्वं दोषः । क्रमेण यथा-
-
 
प्रालेयभूभृतः शैत्यमासीच्चन्दन बिन्दुवत् ।

चाण्डाल इव कर्माणि कृतवानसि साम्प्रतम् ॥

रसातलसमा नाभिः सुमेरुसदृशौ स्तनौ ।

भूचक्रसन्निभा श्रोणी त्रैलोक्यं तव जृम्भते ॥
 
चक

चक्र
वाकोऽयमध्यास्ते पद्मासन इवाम्बुजम् ।
 

 
इत्यादावमहद्भिः सह महतां महद्भिः सहाऽमहतां चौपम्याभिधानं
 

सहचरभिन्नत्वपर्यवसन्नम् ।