This page has been fully proofread once and needs a second look.

काव्यडाकिन्याः
 
अकाण्डे छेदो यथा वीरचरिते द्वितीयेऽङ्के राघवभार्गवयोर्धाराधिरू
-
ढेऽन्योन्यसंरम्भे 'कङ्कणमोचनाय गच्छामि 'इति राघवस्योक्तौ ।
 

 
अनङ्गपरिकीर्तनं यथा मम मन्दारमञ्जर्या राशःज्ञः स्वयं कृतं वसन्त-

वर्णनमनादृत्य बन्दिवर्णनप्रशंसनम् ।
 

 
अङ्गस्याऽत्यन्तविस्तारो यथा किरातार्जुनीये सुराङ्गनाविलासादिः ।

प्रकृतयो दिव्या अदिव्या दिव्याऽदिव्याश्च धीरोदात्तधीरोद्धतधी-

रललितधीरप्रशान्ताः । वीररसप्रधानो धीरोदात्तः । रौद्ररसप्रधानो

धीरोद्धतः । शृङ्गाररसप्रधानो धीरललितः । शान्तरसप्रधानो धीर.
-
प्रशान्तः । एते चोत्तममध्यमाऽधमाः । एतेषु यो यथाभूतस्तस्याऽन्य
-
थावर्णने प्रकृतिविपर्ययो दोषः । अत एवाऽनर्घ्यराघवे रामायणसिद्धः

प्रहर्ता श्रीरामस्तं परिहृत्य 'काणीचकार चरमः' इत्यादिना लक्ष्मणेन

काकोपरि ब्रह्मास्त्र प्रयोगः कृत इत्युपनिबद्धम् । अन्यथा वीररसप्रधा.
-
नस्य रामस्य तादृशकर्मवर्णने प्रकृतिविपर्ययो दोषः स्यात् ।
 

 
'एतादृशः' इति । कान्तापादप्रहारेण कान्तस्य कोपवर्णनादिरूपा

इत्यर्थः । यथा-
ममयम्
-
 
नमयन्
नेव मूर्धानं मनस्विन्या हतः पदा ।

अत्यन्तारुणदृक्कान्तो बभूव स्फुरिताधरः ॥
 

इत्यादि ।
 

 
पूर्वोक्तानपि
 
दोषान्नाऽतिक्रामन्त्यलङ्कृतेर्दोषाः ॥४॥
 

 
'पूर्वोकाक्ता' निति । शब्दार्थगतानित्यर्थः । तथा हि-
-
 
-
 
प्रसिद्ध्यभावो वैफल्यं तथा वृत्तिविरोधिता ॥

अनुप्रासगता दोषास्त्रय एते प्रकीर्तिताः ॥ ५ ॥
 

 
अनुप्रासस्य प्रसिद्ध्यभावो दोषः प्रसिद्धिविरुद्धत्वेन गतार्थः ।

वैफल्यं पुनरपुष्टार्थत्वेन गतार्थम् । वृत्तिविरोधस्तु प्रतिकूलवर्णत्वेन