काव्यडाकिनि /50
This page has not been fully proofread.
काव्यडाकिन्याः
अकाण्डे छेदो यथा वीरचरिते द्वितीयेऽङ्के राघवभार्गवयोर्धाराधिरू
ढेऽन्योन्यसंरम्भे 'कङ्कणमोचनाय गच्छामि इति राघवस्योक्तौ ।
अनङ्गपरिकीर्तनं यथा मम मन्दारमञ्जर्या राशः स्वयं कृतं वसन्त-
वर्णनमनादृत्य बन्दिवर्णनप्रशंसनम् ।
अङ्गस्याऽत्यन्तविस्तारो यथा किरातार्जुनीये सुराङ्गनाविलासादिः ।
प्रकृतयो दिव्या अदिव्या दिव्याऽदिव्याश्च धीरोदात्तधीरोद्धतधी-
रललितधीरप्रशान्ताः । वीररसप्रधानो धीरोदात्तः । रौद्ररसप्रधानो
धीरोद्धतः । शृङ्गाररसप्रधानो धीरललितः । शान्तरसप्रधानो धीर.
प्रशान्तः । एते चोत्तममध्यमाऽधमाः । एतेषु यो यथाभूतस्तस्याऽन्य
थावर्णने प्रकृतिविपर्ययो दोषः । अत एवाऽनर्घ्यराघवे रामायणसिद्धः
प्रहर्ता श्रीरामस्तं परिहृत्य 'काणीचकार चरमः' इत्यादिना लक्ष्मणेन
काकोपरि ब्रह्मास्त्र प्रयोगः कृत इत्युपनिबद्धम् । अन्यथा वीररसप्रधा.
नस्य रामस्य तादृशकर्मवर्णने प्रकृतिविपर्ययो दोषः स्यात् ।
'एतादृशः' इति । कान्तापादप्रहारेण कान्तस्य कोपवर्णनादिरूपा
इत्यर्थः । यथा-
ममयम्नेव मूर्धानं मनस्विन्या हतः पदा ।
अत्यन्तारुणहक्कान्तो बभूव स्फुरिताधरः ॥
इत्यादि ।
पूर्वोक्तानपि
दोषान्नाऽतिक्रामन्त्यलङ्कृतेर्दोषाः ॥४॥
'पूर्वोका' निति । शब्दार्थगतानित्यर्थः । तथा हि-
-
प्रसिद्धयभावो वैफल्यं तथा वृत्तिविरोधिता ॥
अनुप्रासगता दोषास्त्रय एते प्रकीर्तिताः ॥ ५ ॥
अनुप्रासस्य प्रसिद्धयभावो दोषः प्रसिद्धिविरुद्धत्वेन गतार्थः ।
वैफल्यं पुनरपुष्टार्थत्वेन गतार्थम् । वृत्तिविरोधस्तु प्रतिकूलवर्णत्वेन