This page has been fully proofread once and needs a second look.

पश्चमी दृष्टिः ।
 
४३
 
अत्र शृङ्गारप्रतिकूलस्य शान्तस्याऽनित्यत्वप्रकाशनरूपो विभावस्त
-
द्व्
यञ्जितश्च निर्वेदो व्यभिचारी गृहीतः । निर्वेदस्य प्रातिकूल्यं शान्त-

स्थायित्वप्रतीत्यैव, न तु शृङ्गारव्यभिचारित्वेन ।

प्रतिकूलानुभावग्रहो यथा-
-
 
प्रच्छन्ने ढकृदृक्पथं याते दयिते गुरुसन्निधौ ।

सर्व सद्मनि सन्त्यज्य वनं व्रजति सुन्दरी ॥

 
अत्र सर्वसन्त्यागो वनगमनं च शान्तानुभावौ इन्धनाद्याहरणच्छ-

लाभावात् शृङ्गारस्य प्रतिकूलौ ।

 
अनुभावस्य कष्टव्यक्तिर्यथा--

वहति पटरिसमीरे नवजलधरबन्धुरे नभसि ।

किञ्चिदुञ्चिन्नयना दृष्टिपथं सा गता यूनः ॥

 
अत्र शृङ्गारस्य पटीरसमीरादिरूपोद्दीपन विभावनायिका रूपालम्ब-

नविभायावनुभावाऽपर्यवसायिनौ स्थिताबिवित्यनुभावस्य कष्टकल्पना । न

'किञ्चि' दित्यादिनाऽनुभावकथनमिति वाच्यम, यनिष्ठो रसस्तन्निष्ठा-
नुभावस्य वक्तव्यत्वादिह तु नायकनिष्ठे रसे तन्निष्ठानुभावस्य कथना-
भावात्
'किञ्चि'दित्यादिनाऽनुभावकथनमिति वाच्यम्, यन्निष्ठो रसस्तन्निष्ठा-
नुभावस्य वक्तव्यत्वादिह तु नायकनिष्ठे रसे तन्निष्ठानुभावस्य कथना-
भावात् 'किञ्चि'दित्यादिना
नायिका निष्ठानुभावकथम् ।

 
विभावस्य कष्टव्यक्तिर्यथा-
mpaplaka
 
-
बहुशो विलुठति मोहं व्रजति रतिं द्रागपाकुरुते ।

अयमतिविकलः सम्प्रति करोमि किकिं तन्न जानीमः ॥
 

 
अत्र विलुठनादीनां करुणादावपि सम्भवात् कामिनीरूपस्य वि.
-
भावस्याऽतिकृच्छ्रादभिव्यक्तिः ।
 

 
भिङ्गिनोऽननुसन्धानं यथा रत्नावल्यां चतुर्थेऽङ्के बाभ्रव्यागमने सति

सागरिकाया विस्मृतिः ।
 

 
दीप्तिः पुनः पुनर्यथा कुमारसम्भवे रतिप्रलापे ।
 

 
अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीयेऽङ्के ऽनेकसङ्ख्क्षये वृत्ते भानु-

मत्या सह दुर्योधनस्य शृङ्गारवर्णने ।