This page has not been fully proofread.

पश्चमी दृष्टिः ।
 
४३
 
अत्र शृङ्गारप्रतिकूलस्य शान्तस्याऽनित्यत्वप्रकाशनरूपो विभावस्त
यञ्जितश्च निर्वेदो व्यभिचारी गृहीतः । निर्वेदस्य प्रातिकूल्यं शान्त-
स्थायित्वप्रतीत्यैव, न तु शृङ्गारव्यभिचारित्वेन ।
प्रतिकूलानुभावग्रहो यथा-
प्रच्छन्ने ढकृपथं याते दयिते गुरुसन्निधौ ।
सर्व सद्मनि सन्त्यज्य वनं व्रजति सुन्दरी ॥
अत्र सर्वसन्त्यागो वनगमनं च शान्तानुभावौ इन्धनाद्याहरणच्छ-
लाभावात् शृङ्गारस्य प्रतिकूलौ ।
अनुभावस्य कष्टव्यक्तिर्यथा--
वहति पटरिसमीरे नवजलधरबन्धुरे नभसि ।
किञ्चिदुञ्चिन्नयना दृष्टिपथं सा गता यूनः ॥
अत्र शृङ्गारस्य पटीरसमीरादिरूपोद्दीपन विभावनायिका रूपालम्ब-
नविभायावनुभावाऽपर्यवसायिनौ स्थिताबित्यनुभावस्य कष्टकल्पना । न
च 'किञ्चि' दित्यादिनाऽनुभावकथनमिति वाच्यम, यनिष्ठो रसस्तन्निष्ठा-
नुभावस्य वक्तव्यत्वादिह तु नायकनिष्ठे रसे तन्निष्ठानुभावस्य कथना-
भावात् 'किञ्चि'दित्यादिना नायिका निष्ठानुभावकथम् ।
विभावस्य कष्टव्यक्तिर्यथा-
mpaplaka
 
बहुशो विलुठति मोहं व्रजति रतिं द्रागपाकुरुते ।
अयमतिविकलः सम्प्रति करोमि कि तन्न जानीमः ॥
 
अत्र विलुठनादीनां करुणादावपि सम्भवात् कामिनीरूपस्य वि.
भावस्याऽतिकृच्छ्रादभिव्यक्तिः ।
 
अभिनोऽननुसन्धानं यथा रत्नावल्यां चतुर्थेऽके बाभ्रव्यागमने सति
सागरिकाया विस्मृतिः ।
 
दीप्तिः पुनः पुनर्यथा कुमारसम्भवे रतिप्रलापे ।
 
अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीयेऽङ्के ऽनेकसङ्ख्ये वृत्ते भानु-
मत्या सह दुर्योधनस्य शृङ्गारवर्णने ।