This page has been fully proofread once and needs a second look.

काव्यडाकिन्या:
 
४२
 
अथ रसदोषानाह-
-
स्वशब्देन रसस्योक्तिः सञ्चारिस्थायिनोरपि ॥

परिग्रहो विभावादेर्विरोधिरसवर्तिनः ॥ १ ॥

अतिकृच्छ्रादभिव्यक्तिरनुभावविभावयोः ॥

अङ्गिनोऽननुसन्धानं तथा दीप्तिः पुनः पुनः ॥ २ ॥

अकाण्डे प्रथनच्छेदावनङ्ग परिकीर्तनम् ॥
 

अङ्गस्याऽत्यन्तविस्तारः प्रकृतीनां विपर्ययः ॥ ३ ॥

एतादृशो रसे दोषाः सुधीभिः परिकीर्तिताः ॥
 

 
रसस्य रसशब्देन शृङ्गारादिशब्देन वा कथनं दोषः । यथा-
-
 
दरस्मेरसरोजाक्षीषीं पश्यतः पुरतो मम ।

विषयेभ्यो रसः कोऽपि न्यवर्तयत मानसम् ॥

यदा हरिणशावाक्षी मदन्तिकमुपागता ।
 

सखे ! तदानीमभवं शृङ्गारमयमानसः ॥

 
व्यभिचारिणः स्वशब्देन कथनं यथा-
-
 
आक्रम्य विषमं वर्त्म समायाताऽपि सन्निधिम् ।

आलिङ्गने सलज्जाऽभूत्प्रियस्य मृगलोचना ॥

 
अत्र 'सलज्जा' इत्यत्र 'विनम्रा' इति वाच्यम् ।

 
स्थायिनः स्वशब्दवाच्यत्वं यथा-
wh
 
-
 
सीतापहारगर्विष्ठे रूक्षं जल्पति रावणे ।

बभूव समरे क्रोधः सद्यः पवनजन्मनः ॥

 
अत्र क्रोधः स्थायी । रसाद्युपस्थितिरनुभावद्वारैव चमत्करोति, न
 

पुनः स्वशव्देनेत्यस्य दूषकताबीजम् ।

 
प्रतिकूलविभावव्यभिचारिग्रहो यथा-
नवध
-
नवघ
ननिचिते गगने प्रणतिपरे प्राणनाथेऽस्मिन् ।

विधुमुखि ! भव प्रसन्ना न पुनः समुपैति निर्गतः समयः ॥