This page has not been fully proofread.

काव्यडाकिन्या:
 
४२
 
अथ रसदोषानाह-
स्वशब्देन रसस्योक्तिः सञ्चारिस्थायिनोरपि ॥
परिग्रहो विभावादेर्विरोधिरसवर्तिनः ॥ १ ॥
अतिकृच्छ्रादभिव्यक्तिरनुभावविभावयोः ॥
अङ्गिनोऽननुसन्धानं तथा दीप्तिः पुनः पुनः ॥ २ ॥
अकाण्डे प्रथनच्छेदावनङ्ग परिकीर्तनम् ॥
 
अङ्गस्याऽत्यन्तविस्तारः प्रकृतीनां विपर्ययः ॥ ३ ॥
एतादृशो रसे दोषाः सुधीभिः परिकीर्तिताः ॥
 
रसस्य रसशब्दन शृङ्गारादिशब्देन वा कथनं दोषः । यथा-
दरस्मेरसरोजाक्षी पश्यतः पुरतो मम ।
विषयेभ्यो रसः कोऽपि न्यवर्तयत मानसम् ॥
यदा हरिणशावाक्षी मदन्तिकमुपागता ।
 
सखे । तदानीमभवं शृङ्गारमयमानसः ॥
व्यभिचारिणः स्वशब्देन कथनं यथा-
आक्रम्य विषमं वर्म समायाताऽपि सन्निधिम् ।
आलिङ्गने सलज्जाऽभूत्प्रियस्य मृगलोचना ॥
अत्र 'सलज्जा' इत्यत्र 'विनम्रा' इति वाच्यम् ।
स्थायिनः स्वशब्दवाच्यत्वं यथा-
wh
 
सीतापहारगर्विष्ठे रूक्षं जल्पति रावणे ।
बभूव समरे क्रोधः सद्यः पवनजन्मनः ॥
अत्र क्रोधः स्थायी । रसायुपस्थितिरनुभावद्वारैव चमत्करोति, न
 
पुनः स्वशव्देनेत्यस्य दूषकताबीजम् ।
प्रतिकूलविभावव्यभिचारिग्रहो यथा-
नवधननिचिते गगने प्रणतिपरे प्राणनाथेऽस्मिन् ।
विधुमुखि । भव प्रसन्ना न पुनः समुपैति निर्गतः समयः ॥