This page has not been fully proofread.

चतुर्थी दृष्टिः ।
 
४१
 
अत्र 'विदितं तेऽस्तु' इत्यादिना समाप्तिमपि 'तेन' इत्यादिना पुनः
स्वीकृतम् ।
 
मनुवादस्याऽयुक्तता यथा-
सरोभूषण ! भृङ्गालिपरमप्रीतिवर्धन ! ।
 
वियोगिप्राणकाल ! त्वं वद पद्म ! कसा प्रिया ॥
 
भत्र 'वियोगिप्राणकाल' इत्यस्यार्थो नाऽनुवाद्यः ।
 
प्रास्यता यथा-
तत्रैवास्तरणे भायें ! स्वपिम्यहमनुक्षणम् ।
तद्वहिः कुरु वासस्त्वमूरुयुग्मं विकासय ॥
 
अत्र प्राभ्योऽर्थः ।
 
अलीलता यथा-
वैदग्ध्यविदुषां पुंसां साङ्करस्य सुखावहा ।
यथा कर्कशता प्रायो न तथैवाऽऽर्द्रता पुनः ॥
अत्र स्त्रीव्यञ्जनस्य प्रतीतिरित्यश्लीलता ॥
 
इति श्रीमैथिल श्रीगङ्गानन्दकवीन्द्रकृतौ
काव्यडाकिन्यां चतुर्थी दृष्टेिः ॥