This page has been fully proofread once and needs a second look.

चतुर्थी दृष्टिः ।
 
अत्र मण्डूकादिभिरपकृष्टै:टैः सह सतामभिधानम् ।
 

 
अविधेयस्य विधानं यत्र भवेत्तत्र विध्ययुक्तत्वम् ॥
 

 
यथा-
-
पूर्वं यद्विबुधास्त्वया निजगृहाद्दुष्टेन विद्राविता
 

भग्नो यच्च ने ने प्रतिपलं व्यूढो मुर्नानां मखः ।

सम्प्रत्युग्रतपस्विनीनीं यदहरः सीतामभीतस्ततः
 

पश्यानन्दितराधकोवो दशमुख ! त्वां सङ्गरे हन्म्यहम् ॥

 
अत्र 'त्वां हत्वा राघवमानन्दयिष्यामि' इति विधेयम् । अविमृष्टविधे-

यांशे तु पदयोर्व्युत्क्रमाद्विधेयस्य वैपरीत्येन विधानमिह त्वविधेयस्येति

विशेषः ।
 

 
अविशेषे विशेषो यथा-
-
रे रे राक्षसराजपुत्र ! समरे मायाऽवरुद्धोऽधुना

श्रीरामानुचरानिहोपहससि त्वां धिग्वृथा जीवितम् ।

किं नो वेत्सि हनूमता बलवता येषां पुरोगामिना

दग्धान्तःपुरगोपुरावधिपुरी लङ्काऽद्य वः पश्यताम् ॥

 
अत्र 'येषामेकेन पुरोगामिना' इत्यविशेषो वाथ्यो, न तु 'हनूमता' इति

विशेषः ।
 

 
अनियमे नियमो यथा-
-
भीमस्ते युधि विक्रमो दिशि यशोराशिस्त्वदीयोऽर्जुन-

स्त्
वत्सारोऽस्ति युधिष्ठिरो नचयो नासत्यजन्माऽभवत् ।

कुन्ती योधगणः क्षितीश ! भवतः कृष्णैव केशावली

मन्ये पाण्डवमण्डली परिवृतो भूमौ भवान् वर्तते ॥

 
अत्र 'कृष्णैव' इति नियमाऽभिधानं न कर्तव्यम् ।

 
विशेषे सामान्यं यथा-
-
धम्मिल्लोपरि सन्निवेशय सितां मालामिमां यत्नतः
 

श्रीखण्डद्रवलेपनं कुरु कचे हारं हृदि स्थापय ।
 
FRILLOR