काव्यडाकिनि /45
This page has not been fully proofread.
चतुर्थी दृष्टिः ।
अत्र मण्डूकादिभिरपकृष्टै: सह सतामभिधानम् ।
अविधेयस्य विधानं यत्र भवेत्तत्र विध्ययुक्तत्वम् ॥
यथा-
पूर्व यद्विबुधास्त्वया निजगृहाद्दुष्टेन विद्राविता
भग्नो यच्च बने बने प्रतिपलं व्यूढो मुर्नानां मखः ।
सम्प्रत्युग्रतपस्विनी यदहरः सीतामभीतस्ततः
पश्यानन्दितराधको दशमुख । त्वां सङ्गरे हन्म्यहम् ॥
अत्र 'त्वां हत्वा राघवमानन्दयिष्यामि' इति विधेयम् । अविमृष्टविधे-
यांशे तु पदयोर्व्युत्क्रमाद्विधेयस्य वैपरीत्येन विधानमिह त्वविधेयस्येति
विशेषः ।
अविशेषे विशेषो यथा-
रे रे राक्षसराजपुत्र ! समरे मायाऽवरुद्धोऽधुना
श्रीरामानुचरानिहोपहससि त्वां धिग्वृथा जीवितम् ।
किं नो वेत्सि हनूमता बलवता येषां पुरोगामिना
दग्धान्तःपुरगोपुरावधिपुरी लङ्काऽद्य वः पश्यताम् ॥
अत्र 'येषामेकेन पुरोगामिना' इत्यविशेषो वाथ्यो, न तु 'हनूमता' इति
विशेषः ।
अनियमे नियमो यथा-
भीमस्ते युधि विक्रमो दिशि यशोराशिस्त्वदीयोऽर्जुन-
सवत्सारोऽस्ति युधिष्ठिरो घनचयो नासत्यजन्माऽभवत् ।
कुन्ती योधगणः क्षितीश ! भवतः कृष्णैव केशावली
मन्ये पाण्डवमण्डली परिवृतो भूमौ भवान् वर्तते ॥
अत्र 'कृष्णैव' इति नियमाऽभिधानं न कर्तव्यम् ।
विशेषे सामान्यं यथा-
धम्मिल्लोपरि सन्निवेशय सितां मालामिमां यत्नतः
श्रीखण्डद्रवलेपनं कुरु कचे हारं हृदि स्थापय ।
FRILLOR