This page has been fully proofread once and needs a second look.

काव्यडाकिन्याः
 
अत्राऽधरे नखरक्षतं कामशास्त्रविरुद्धम् । एवमन्येष्वपि शास्त्रेषु

विरोधो विभावनीयः ।
 

 
प्रकाशित विरुद्धत्वं प्रकाश्याऽर्थविरुद्धता ॥
 

 
यथा-
-
यथा दूरं व्रजत्येषा कीर्तिर्हृदयभूपतेः ।

तथा तथाऽतिविस्तीर्णा गिरेरिव महानदी ॥

 
अत्रोपमया कीर्तेः सर्वव्यापित्वरूपः प्रकाश्यार्थीथो विरुध्यते

विरुद्धमतिकारितायास्तु शब्दस्य विरुद्धत्वमिह त्वर्थस्येति भेदः ।

 
अप्राप्तपदतात्पर्यगोचरप्रतियोगिता ॥ ११ ॥

यत्रार्थस्य भवेत्तत्र साकाङ्क्षत्वं विदुर्बुधाः ॥
 

 
अप्राप्तमनुपस्थितं यत्पदं तत्तात्पर्यगोचरान्वयप्रतियोगी यत्रार्थ

इत्यर्थः । यथा -
 
--
 
क्रीडावेश्मनि कारितं नृपतिना धूद्यूतं स्वमध्ये पुन-
यं

र्य
द्वागान्धारनृपेण तत्र रचितो व्याजस्ततोऽपि क्षमा ।
चाऽपमानं निजं
 
राज्यं चात्मसमं कथं नरपतिर्भीमाप्रजो मृष्यते ॥
 

पाञ्चालीचिकुरावकर्षणामितस्तं
 
चाऽपमानं निजं
राज्यं चात्मसमं कथं नरपतिर्भीमाग्रजो मृष्यते ॥
 
अत्र राज्यमिभित्युपेक्षितुमित्याकाङ्क्षति ।
 

 
स्यात् सहचरभिन्नत्वं भणितिर्महता सहाऽसतां यत्र ॥१२॥
 

 
इदमुपलक्षणम् । अमहता सह महतामभिधाने बोध्यम् । यथा-
-
हंसो मन्थरसञ्चारैः काकः शकुनसूचकैः ।

कोकिला मधुरालापैराचारैर्भाति भूसुरः ॥

 
अत्र हंसादिभिरुत्कृष्टैः सह काकस्य कथनम् ।
 

 
यथा वा--

तपात्ययेन मण्डूका मूषकाः सस्यवृद्धितः ।

मीना जलोदयात्सन्तो मोदन्ते तीर्थसन्निधेः