This page has not been fully proofread.

चतुर्थी दृष्टिः ।
 
यथा मम भ्रातृरणानां रघुदेवशर्मणाम् -
 
-
 
शैला: कैलासलास्यं दधति जलरास्तन्वते सौधसौख्यं

ताली शोभां वनाली वहति तुलयांतयति स्वःपतीभं मदेभः ।

त्वत्कीर्त्या श्रीप्रताप स्फुरदमलरुचा जायते किञ्चिदन्यत्

क्षोणीन्दो ! क्षीरसिन्धोः परिणतसुषमां सागराः शीलयन्ति ॥
 

 
अत्राऽमूर्तायाः कीर्ते: सम्बन्धाज्जलधरादयो व्यक्तं धवलीभवन्ती-

ति कविप्रसिद्धिः ।
 

 
न कर्तव्येयैव मन्मुष्टाविन्द्रशूल इवाऽऽत्मधीः ।

स्फोटयिष्यामि येनाऽद्य शक्रजित्तव मस्तकम् ॥
 

 
अत्र शक्रस्य शूलमस्त्रं लोकेषु न प्रसिद्धमिति लोकविरोधः ।

 
तथा व्यालोलिता भृङ्गैर्लतानां कलिकावली ।

मधुदृष्टया यथा मूले पूरयामास सारणीम् ॥

 
अत्र कलिकानां मधुबाहुल्यं स्वभावविरुद्धम् ।

 
माध्यपुष्पाणि सन्त्यज्य निपतन्ति समुत्सुकाः ।

मालतीस्तबके सद्यः शिशिरे समयेऽलयः ॥
 

 
अत्र शिशिरे मालतीकुसुमोम इति कालविरुद्धम् ।
 

 
तत्तच्छास्त्रविरुद्धत्वं भवेदिद्विद्याविरुद्धता ॥ १० ॥
 

 
पथा-
३७
 
यथा वा
-

ब्राह्मणः शास्त्रपाठेन गमयित्वाऽखिलं दिनम् ।

सन्ध्याकाले पितुर्यज्ञमेकोद्दिष्टं करोत्यसौ ॥

अत्रैकोद्दिष्टस्य श्राद्धस्य सन्ध्याकाले धर्मशास्त्रेण विधानं नोक्तम् ।
 

 
यथा वा--
मा गोपय सरोजाक्षि ! रहस्यं मम सनिधौ ।

बिम्बाधरे तबैतस्मिन् दृश्यते नखरक्षतम् ॥