This page has not been fully proofread.

अत्र 'विप्रश्चेन्न भवेत्' इत्येतायतैव समाप्ते वाक्यार्थे'अहो बलवतां'इ-
त्यादिरस्थान एवोपसंहारः प्रकृतार्थप्रातिकूल्यमाचरतीत्यर्थस्थाऽस्थाने
सम्बन्धः ।
 
भङ्गयन्तरनवीकारत्यागोऽर्थस्याऽनवीकृतिः ॥ ९ ॥
 
यथा--
सर्वदा सहजो बन्धुः सर्वदा वाति मारुतः ।
सर्वदा दुर्जनो दुःखी सर्वदा सुजनः सुखी ॥
 
अत्र 'सर्वदा सर्वदा' इत्यनवीकृतत्वम् । न च कथितपदसङ्करः ।
अत्रपर्यायान्तरेणोपादानेऽप्यनवीकृतिस्तत्र तु पदाऽभेद इति भेदः ।
किञ्च कथितपदे निःप्रयोजनपुनर्वचनता, इह तु बन्धुतादीनां दार्ढ्यरू-
पप्रयोजनसत्त्वात् । अत एव नाऽर्थपुनरुक्तिः । यथोचितं तथोदाहियते-
सर्वदा सहजो बन्धुर्मारुतो वात्यहर्निशम् ।
न कदाप्यसुखी साधुः सततं दुःखभाक् खलः ॥
इत्यनया भ ट्ट स एवार्थः प्रतिपादयितुमुचितः ।
 
देशादिभेदतः पञ्चविधा ख्यातिविरुद्धता ॥
 
आदिशब्दात्कविलोकस्वभावकाला गृह्यन्ते ।
पृथिव्यां सारभूताऽस्ति मिथिला नाम सा पुरी।
यत्रोद्यानघरा भाति कुङ्कुमस्तवकोद्गमैः ॥
 
अत्र मिथिलायां कुङ्कुमसम्भव इति देशविरुद्धता ।
 
चरणस्तव तन्वङ्गि ! कामदो नात्र संशयः ।
अङ्कुरो यस्य सम्बन्धी दृश्यतेऽशोकशास्त्रिनि ॥
 
अत्र कामिनीपादप्रहारेणाऽशोकस्य कुसुमोद्गमः कविषु प्रसिद्धो
न पुरङ्कुरोद्गमः । लोकविरुद्धोऽपि कविप्रसिद्धपा न दोषः ।