This page has not been fully proofread.

काव्यडाकिन्या:
 
अत्र 'विप्रश्चेन्न भवेत्' इत्येतायतैव समाप्ते वाक्यार्थे'अहो बलवतां'इ-

त्यादिरस्थान एवोपसंहारः प्रकृतार्थप्रातिकूल्यमाचरतीत्यर्थस्थाऽस्थाने
 

सम्बन्धः ।
 

 
भङ्गयन्त रनवीकारत्यागोऽर्थस्याऽनवीकृतिः ॥ ९ ॥
 

 
यथा-
-
सर्वदा सहजो बन्धुः सर्वदा वाति मारुतः ।

सर्वदा दुर्जनो दुःखी सर्वदा सुजनः सुखी ॥
 

 
अत्र 'सर्वदा सर्वदा' इत्यनवीकृतत्वम् । न च कथितपदसङ्करः ।

अत्र पर्यायान्तरेणोपादानेऽप्यनवीकृतिस्तत्र तु पदाऽभेद इति भेदः ।

किञ्च कथितपदे निःप्रयोजनपुनर्वचनता, इह तु बन्धुतादीनां दार्ढ्यरू
-
पप्रयोजनसत्त्वात् । अत एव नाऽर्थपुनरुक्तिः । यथोचितं तथोदाहियते-

सर्वदा सहजो बन्धुर्मारुतो वात्यहर्निशम् ।
 

न कदाप्यसुखी साधुः सततं दुःखभाक् खलः ॥

इत्यनया भ ट्टया स एवार्थः प्रतिपादयितुमुचितः ।

 
देशादिभेदतः पञ्चविधा ख्यातिविरुद्धता ॥
 

 
आदिशब्दात्कविलोकस्वभावकाला गृह्यन्ते ।
 

पृथिव्यां सारभूताऽस्ति मिथिला नाम सा पुरी।

यत्रोद्यानघरा भाति कुङ्कुमस्तवकोद्गमैः ॥
 

 
अत्र मिथिलायां कुङ्कुमसम्भव इति देशविरुद्धता ।

 
चरणस्तव तन्वहिङ्गि ! कामदो नात्र संशयः ।

अङ्कुरो यस्य सम्बन्धी दृश्यतेऽशोकशास्त्रिनि ॥
 

 
अत्र कामिनीपादप्रहारेणाऽशोकस्य कुसुमोद्गमः कविषु प्रसिद्धो
 

न पुरङ्कुरोद्गमः । लोकविरुद्धोऽपि कविप्रसिद्धपा न दोषः ।